छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ४ ॥
ननु तेजःप्रभृतिषु ईक्षणं न गम्यते, हिंसादिप्रतिषेधाभावात् त्रासादिकार्यानुपलम्भाच्च ; तत्र कथं तत्तेज ऐक्षतेत्यादि ? नैष दोषः । ईक्षितृकारणपरिणामत्वात्तेजःप्रभृतीनां सत एव ईक्षितुः नियतक्रमविशिष्टकार्योत्पादकत्वाच्च तेजःप्रभृति ईक्षते इव ईक्षते इत्युच्यते भूतम् । ननु सतोऽप्युपचरितमेव ईक्षितृत्वम् । न । सदीक्षणस्य केवलशब्दगम्यत्वात् न शक्यमुपचरितं कल्पयितुम् । तेजःप्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् । ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम् । अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वात् नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्च ऐक्षत इव ऐक्षतेति शक्यमनुमातुम् उपचरितमेव ईक्षणम् । दृष्टश्च लोके अचेतने चेतनवदुपचारः, यथा कूलं पिपतिषतीति तद्वत् सतोऽपि स्यात् । न, ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । १४ । ३) इति तस्मिन्नात्मोपदेशात् । आत्मोपदेशोऽप्युपचरित इति चेत्— यथा ममात्मा भद्रसेन इति सर्वार्थकारिण्यनात्मनि आत्मोपचारः — तद्वत् ; न, सदस्मीति सत्सत्याभिसन्धस्य ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । सोऽप्युपचार इति चेत्— प्रधानात्माभिसन्धस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशोऽप्युपचरित एव, यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात्त्वगपेक्षया — तद्वत् ; न, येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात् । सति एकस्मिन्विज्ञाते सर्वं विज्ञातं भवति, तदनन्यत्वात् सर्वस्याद्वितीयवचनाच्च । न च अन्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्या अनुमेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात् । सर्वस्य च प्रपाठकार्थस्य उपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात् , पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य । तस्माद्वेदप्रामाण्यात् न युक्तः श्रुतार्थपरित्यागः । अतः चेतनावत्कारणं जगत इति सिद्धम् ॥

तत्तेज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीत्वा चोदयति –

नन्विति ।

प्राणिषु हिंसाप्रतिषेधवदनुग्रहविधानवच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणकार्यदृष्टिवदेतेषु तद्दृष्ट्यभावाच्च नैतेष्वीक्षणं प्रामाणिकं तथा च प्रकृतं प्रमत्तगीतमित्यर्थः ।

तेषां गौणमीक्षितृत्वमुपेत्य परिहरति –

नैष दोष इति ।

सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते –

नन्विति ।

सन्निधेः शब्दस्य बलीयस्त्वमुपेत्य परिहरति –

न सदीक्षणस्येति ।

तुल्यं तेजःप्रभृतिष्वपि शब्दगम्यत्वमीक्षणस्येति चेन्नेत्याह –

तेजःप्रभृतीनां त्विति ।

विमतमीक्षितृ न भवत्यचेतनत्वात्कुम्भवदित्यनुमानात्तेजोमुखे जगतीक्षणासम्भवात्तत्र श्रुतं तदौपचारिकमुचितमित्यर्थः ।

साङ्ख्योऽनुमानावष्टम्भेन शङ्कते –

नन्विति ।

अचेतनस्य कथमीक्षणमित्याशङ्क्याऽऽह –

अत इति ।

अनुमातुं कल्पयितुमिति यावत् ।

कथमचेतने चेतनवदुपचारस्तत्राऽऽह –

दृष्टश्चेति ।

आत्मशब्दावष्टम्भेन परिहरति –

नेत्यादिना ।

आत्मोपदेशोऽपि प्रधाने ग्राणी भविष्यतीति शङ्कते –

आत्मोपदेशोऽपीति ।

तामेव शङ्कां दृष्टान्तद्वारा विवृणोति –

यथेति ।

इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्टस्य मोक्षोपदेशादित्युत्तरमाह –

नेत्यादिना ।

मोक्षोपदेशोऽप्युपचरितो भविष्यतीति शङ्कते –

सोऽपीति ।

शङ्कामेव विवृणोति –

प्रधानात्मेति ।

एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति –

न येनेति ।

उक्तमेव विवृणोति –

सत्येकस्मिन्निति ।

सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्वज्ञानोपदेशो युक्तिमानित्याह –

न चेति ।

सम्प्रति [साङ्ख्यै]हि प्रधानज्ञाने तद्विकारस्य तदभिन्नस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते । तस्मादेकविज्ञानेन सर्वविज्ञानोपदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्क्याऽऽह –

सर्वस्य चेति ।

कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वादित्याशङ्क्याऽऽह –

पुरुषार्थेति ।

तस्यानुमानवादिनः साङ्ख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जडाजडयोरैक्यानुपपत्तिरित्यादिना तर्केणैव सिद्धत्वादुपनिषदारम्भो वृथैवेत्यर्थः ।

श्रुतेर्मुख्यार्थत्वे बाधकाभावात्तत्परित्यागायोगादीक्षत्यधिकरणन्यायेन प्रधानवादासिद्धिरिति परमतनिरसनमुपसंहरति –

तस्मादिति ।

प्रधानवादासम्भवे परिशेषायातं स्वमतं निगमयति –

अत इति ॥४॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वितीयः खण्डः ॥