तत्तेज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीत्वा चोदयति –
नन्विति ।
प्राणिषु हिंसाप्रतिषेधवदनुग्रहविधानवच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणकार्यदृष्टिवदेतेषु तद्दृष्ट्यभावाच्च नैतेष्वीक्षणं प्रामाणिकं तथा च प्रकृतं प्रमत्तगीतमित्यर्थः ।
तेषां गौणमीक्षितृत्वमुपेत्य परिहरति –
नैष दोष इति ।
सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते –
नन्विति ।
सन्निधेः शब्दस्य बलीयस्त्वमुपेत्य परिहरति –
न सदीक्षणस्येति ।
तुल्यं तेजःप्रभृतिष्वपि शब्दगम्यत्वमीक्षणस्येति चेन्नेत्याह –
तेजःप्रभृतीनां त्विति ।
विमतमीक्षितृ न भवत्यचेतनत्वात्कुम्भवदित्यनुमानात्तेजोमुखे जगतीक्षणासम्भवात्तत्र श्रुतं तदौपचारिकमुचितमित्यर्थः ।
साङ्ख्योऽनुमानावष्टम्भेन शङ्कते –
नन्विति ।
अचेतनस्य कथमीक्षणमित्याशङ्क्याऽऽह –
अत इति ।
अनुमातुं कल्पयितुमिति यावत् ।
कथमचेतने चेतनवदुपचारस्तत्राऽऽह –
दृष्टश्चेति ।
आत्मशब्दावष्टम्भेन परिहरति –
नेत्यादिना ।
आत्मोपदेशोऽपि प्रधाने ग्राणी भविष्यतीति शङ्कते –
आत्मोपदेशोऽपीति ।
तामेव शङ्कां दृष्टान्तद्वारा विवृणोति –
यथेति ।
इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्टस्य मोक्षोपदेशादित्युत्तरमाह –
नेत्यादिना ।
मोक्षोपदेशोऽप्युपचरितो भविष्यतीति शङ्कते –
सोऽपीति ।
शङ्कामेव विवृणोति –
प्रधानात्मेति ।
एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति –
न येनेति ।
उक्तमेव विवृणोति –
सत्येकस्मिन्निति ।
सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्वज्ञानोपदेशो युक्तिमानित्याह –
न चेति ।
सम्प्रति [साङ्ख्यै]हि प्रधानज्ञाने तद्विकारस्य तदभिन्नस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते । तस्मादेकविज्ञानेन सर्वविज्ञानोपदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्क्याऽऽह –
सर्वस्य चेति ।
कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वादित्याशङ्क्याऽऽह –
पुरुषार्थेति ।
तस्यानुमानवादिनः साङ्ख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जडाजडयोरैक्यानुपपत्तिरित्यादिना तर्केणैव सिद्धत्वादुपनिषदारम्भो वृथैवेत्यर्थः ।
श्रुतेर्मुख्यार्थत्वे बाधकाभावात्तत्परित्यागायोगादीक्षत्यधिकरणन्यायेन प्रधानवादासिद्धिरिति परमतनिरसनमुपसंहरति –
तस्मादिति ।
प्रधानवादासम्भवे परिशेषायातं स्वमतं निगमयति –
अत इति ॥४॥