छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ १ ॥
तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम् , एषामिति प्रत्यक्षनिर्देशात् , न तु तेजःप्रभृतीनाम् , तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वात् ; असति त्रिवृत्करणे प्रत्यक्षनिर्देशानुपपत्तिः । देवताशब्दप्रयोगाच्च तेजःप्रभृतिषु — ‘इमास्तिस्रो देवताः’ इति । तस्मात् तेषां खल्वेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति । कानि तानीति, उच्यन्ते — आण्डजम् अण्डाज्जातमण्डजम् अण्डजमेव आण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः । ननु अण्डाज्जातम् अण्डजमुच्यते, अतोऽण्डमेव बीजमिति युक्तम् ; कथमण्डजं बीजमुच्यते ? सत्यमेवं स्यात् , यदि त्वदिच्छातन्त्रा श्रुतिः स्यात् ; स्वतन्त्रा तु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति । दृश्यते च अण्डजाद्यभावे तज्जातीयसन्तत्यभावः, न अण्डाद्यभावे । अतः अण्डजादीन्येव बीजानि अण्डजादीनाम् । तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि । उद्भिज्जम् उद्भिनत्तीत्युद्भित् स्थावरं ततो जातमुद्भिज्जम् , धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः । स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासम्भवमन्तर्भावः । एवं हि अवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥

महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति –

तेषामिति ।

पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भवन्तीत्युत्तरत्र सम्बन्धः ।

भूतशब्दस्य तेजःप्रभृतिषु रूढत्वात्तेषामिह ग्रहणं किं न स्यादित्याशङ्क्याऽऽह –

एषामितीति ।

भूतानां प्रत्यक्षत्वमेषामिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षत्वायोगादित्यर्थः ।

तेजःप्रभृतीनां प्रत्यक्षत्वायोगादेषामिति निर्देशानुपपत्तिं समर्थयते –

तेषामिति ।

तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह –

देवताशब्देति ।

देवतानां परोक्षत्वप्रसिद्धेरेतेषु च देवतापदप्रयोगान्नैतेषां प्रत्यक्षत्वोपपत्तिरित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः ।

आण्डजं पक्ष्यादीत्येतत्प्रत्यक्षेणोपपादयति –

पक्षिसर्पादिभ्यो हीति ।

अन्यदपीति गोधाद्युच्यते ।

अण्डाज्जातमितिव्युत्पत्त्यनुसारेणाण्डमेव बीजं न त्वण्डजमिति शङ्कते –

नन्विति ।

पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति –

सत्यमित्यादिना ।

न केवलं श्रुतेरेषा व्यवस्था किन्तूपपत्तेश्चेत्याह –

दृश्यते चेति ।

सत्येवाण्डजादौ तज्जातीयमण्डजादि सन्तत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजाद्यवाण्डजजातिकारणम् । यद्यप्वण्डाद्यभावे नाण्डजादि जायते तथाऽप्यण्डादिभावेऽण्डजाद्यभावेऽपि तद्भवतीति नान्वयः । तस्मादण्डजादीनामण्डजान्येव बीजानि नाण्डादीनीत्यर्थः । धानाशब्दो बीजविषयः ।

ननु स्वेदजं संशोकजमिति बीजद्वयमवशिष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह –

स्वेदजेति ।

स्वेदमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकादौष्ण्याज्जायमानं यूकादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं यूकादि तदण्डजेऽन्तर्भूतं संशोकादौष्ण्याद्भूमिमुद्भिद्य जातं मशकादि तस्योद्भिज्जेऽन्तर्भावः । तथा च न तयोरस्ति पृथग्व्युत्पादनापेक्षेत्यर्थः ।

स्वेदजादेरण्डजादावन्तर्भावस्य प्रापकमाह –

एवमिति ॥१॥