व्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –
सैवमित्यादिना ।
व्याकरवाणीत्यैक्षतेति सम्बन्धः ।
कथं पुनरिदं त्रिवृत्करणमित्याशङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं विवक्षितमित्याह –
एकैकस्या इति ।
गुणप्रधानभावानङ्गीकारे समानपरिमाणसूत्रत्रयनिर्मितरज्जुवत्त्रिवृत्करणमेकमेव स्यादित्याह –
अन्यथेति ।
एवकारार्थं दर्शयति –
न त्विति ।
गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः ।
इतश्च गुणप्रधानभावेन त्रिवृत्करणमेष्टव्यमित्याह –
एवं हीति ।
पृथङ्नामप्रत्ययलाभेनापि किं स्यादित्याशङ्क्याऽऽह –
पृथगिति ।
सेयमित्यादि व्याचष्टे –
एवमित्यादिना ॥३॥