छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदाञ्चक्रुः ॥ ५ ॥
एतत् विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ताः महाशालाः महाश्रोत्रियाः आहुः ह स्म वै किल । किमुक्तवन्त इति, आह — न नः अस्माकं कुले अद्य इदानीं यथोक्तविज्ञानवतां कश्चन कश्चिदपि अश्रुतममतमविज्ञातम् उदाहरिष्यति नोदाहरिष्यति, सर्वं विज्ञातमेव अस्मत्कुलीनानां सद्विज्ञानवत्त्वात् इत्यभिप्रायः । ते पुनः कथं सर्वं विज्ञातवन्त इति, आह — एभ्यः त्रिभ्यः रोहितादिरूपेभ्यः त्रिवृत्कृतेभ्यः विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदाञ्चक्रुः विज्ञातवन्तः यस्मात् , तस्मात्सर्वज्ञा एव सद्विज्ञानात् ते आसुरित्यर्थः । अथवा एभ्यो विदाञ्चक्रुरिति अग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदाञ्चक्रुरित्येतत् ॥

त्रिवृत्करणपक्षेऽप्येकविज्ञानेन सर्वविज्ञानश्रुतिविरुद्धेत्युपपाद्य त्रिवृत्करणमुदाहरणान्तरेण दर्शयितुमारभते –

एतदिति ।

त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृत्करणविज्ञानवन्तो निर्दिश्यन्ते ॥५॥