छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति तद्विदाञ्चक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥
कथम् ? यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत् तेषां पूर्वेषां ब्रह्मविदाम् , तत्तेजसो रूपमिति विदाञ्चक्रुः । तथा यच्छुक्लमिवाभूद्गृह्यमाणं तदपां रूपम् , यत्कृष्णमिव । गृह्यमाणं तदन्नस्येति विदाञ्चक्रुः । एवमेवात्यन्तदुर्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्यमाणमभूत् तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदाञ्चक्रुः । एवं तावद्बाह्यं वस्त्वग्न्यादिवद्विज्ञातम् , तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो देवताः पुरुषं शिरःपाण्यादिलक्षणं कार्यकारणसङ्घातं प्राप्य पुरुषेणोपयुज्यमानाः त्रिवृत्त्रिवृदेकैका भवति, तत् आध्यात्मिकं विजानीहि निगदतः इत्युक्त्वा आह ॥

वेदनप्रकारमेवाऽऽकाङ्क्षापूर्वकं प्रकटयति –

कथमित्यादिना ।

अन्यदग्न्यादिभ्यः सकाशादिति शेषः ।

यदनेकरूपत्वात्कपोतादिरूपेण सन्दिह्यमानमेतद्दृश्यते तस्मिन्कपोतादिस्वरूपे यत्किञ्चिद्रोहितमिव रूपं गृह्यमाणं पूर्वेषामासीत्तत्तेजसो रूपमिति ते विदितवन्त इति योजना । अत्यन्तदुर्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्यादीत्यर्थः ।

अगृह्यमाणमिति च्छेदः यथा नु खल्वित्यादिवाक्यं वृत्तानुवादपूर्वकमवतारयति –

एवं तावदिति ।

यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृत्त्रिवृद्भवति तथेदानीं तदाध्यात्मिकं त्रिवृत्करणमेवमेवेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥