छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणिष्ठस्तन्मनः ॥ १ ॥
अन्नम् अशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते । कथम् ? तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलांशः, तत्पुरीषं भवति ; यो मध्यमांशः धातुरन्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भवति ; यः अणिष्ठः अणुतमो धातुः, स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागादिकरणसङ्घातस्य स्थितिमुत्पादयन् मनो भवति । मनोरूपेण विपरिणमन् मनस उपचयं करोति । ततश्च अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते । यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया ; किं तर्हि, सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापारकत्वापेक्षया । यच्चान्येन्द्रियविषयापेक्षया नित्यत्वम् , तदप्यापेक्षिकमेवेति वक्ष्यामः, ‘सत् . . . एकमेवाद्वितीयम्’ इति श्रुतेः ॥

कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् ।

कथमन्नोपयोगात्प्रागेव मनसः सिद्धत्वात्तन्मनो भवतीत्युच्यते तत्राऽऽह –

मनोरूपेणेति ।

मनसोऽन्नोपचितत्ववचनाद्वैशेषिकपरिभावाऽपि दूषिता वेदितव्येत्याह –

ततश्चेति ।

मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्याशङ्क्याऽऽह –

यदपीति ।

केनाभिप्रायेण तर्हि विशेषणमित्याशङ्क्याऽऽह –

किं तर्हीति ।

तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्यत्वमित्याशङ्क्याऽऽह –

यच्चेति ।

यद्वा चक्षुरादिष्वसत्स्वपि मनसः सत्त्वोपलम्भात्तदपेक्षया तस्य नित्यत्वमेष्टव्यमित्याशङ्क्याऽऽह –

यच्चेति ।

आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्क्याऽऽह –

सदिति ॥१॥