मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायः
पञ्चमः खण्डः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (छान्दोग्य)
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ २ ॥
तथा आपः पीताः त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुः, तन्मूत्रं भवति, यो मध्यमः, तल्लोहितं भवति ; योऽणिष्ठः, स प्राणो भवति । वक्ष्यति हि —
‘आपोमयः प्राणो नपिबतो विच्छेत्स्यते’ (छा. उ. ६ । ७ । १)
इति ॥
तथेति ॥२॥
;
भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपामपि त्रैविध्यमाह –
तथेति ॥२॥