दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ।
खजो मन्थास्तेन मध्यमानस्य दध्नो यथाऽणिमा तथा यथोक्तस्यान्नस्य योऽणिमेति योज्यम् ।
कथं तन्मनो भवतीत्युच्यते प्रागपि मनसः सिद्धत्वादित्याशङ्क्याऽऽह –
मनोऽऽवयवैरिति ॥२-४॥