मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायः
सप्तमः खण्डः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (छान्दोग्य)
तंहोवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ५ ॥
तं ह उवाच पुनः पिता — यथा सोम्य महतः अभ्याहितस्येत्यादि समानम् , एकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्च उपसमाधाय प्राज्वलयेत् वर्धयेत् । तेनेद्धेन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत् ॥
ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न देहात्कुतो बहु दहेदिति योजना ॥३-५॥