छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥
एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलम् , तत्पुत्रस्य दर्शयित्वा आह अन्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः — अशनापिपासे अशितुमिच्छा अशना, सन् यलोपेन, पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्त्वं विजानीहीत्येतत् । यत्र यस्मिन्काले एतन्नाम पुरुषो भवति । किं तत् ? अशिशिषति अशितुमिच्छतीति । तदा तस्य पुरुषस्य किंनिमित्तं नाम भवतीति, आह — यत्तत्पुरुषेण अशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते, तदा भुक्तमन्नं जीर्यति । अथ च भवत्यस्य नाम अशिशिषतीति गौणम् । जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः । तत्र अपामशितनेतृत्वात् अशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे । तथा गोनायः गां नयतीति गोनायः इत्युच्यते गोपालः, यथा अश्वान्नयतीत्यश्वनायः अश्वपाल इत्युच्यते, पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा, एवं तत् तदा अप आचक्षते लौकिकाः अशनायेति विसर्जनीयलोपेन । तत्रैवं सति अद्भिः रसादिभावेन नीतेन अशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गः अङ्कुर उत्पतितः उद्गतः ; तमिमं शुङ्गं कार्यं शरीराख्यं वटादिशुङ्गवदुत्पतितं हे सोम्य विजानीहि । किं तत्र विज्ञेयमिति, उच्यते — शृणु इदं शुङ्गवत्कार्यत्वात् शरीरं नामूलं मूलरहितं भविष्यति इत्युक्तः आह श्वेतकेतुः ॥

वृत्तमनूद्यानन्तरवाक्यमुत्थापयति –

एवमिति ।

आहाशनापिपासे सोम्येत्यादीति शेषः ।

किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह –

अन्नादीति ।

अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्दर्शयितुमिच्छन्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्यमाहेत्यर्थः ।

अशनेत्यस्य सन्नन्तत्वाभावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह –

अशनेति ।

यकारस्य लोपेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्धेत्यर्थः ।

तत्राशनायापिपासयोः सतत्त्वं विज्ञापयति –

यत्रेति ।

सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति –

किं तदिति ।

यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परिणामावस्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते ।

कथं तदा नाम्नो गौणत्वं तदाह –

जीर्णे हीति ।

तद्यथेत्यत्र तच्छब्दार्थमाह –

तत्तत्रेति ।

एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः ।

अशनायेति कथमपामाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽह –

विसर्जनीयेति ।

तत्रेत्यस्य व्याख्यानमेवं सतीत्यपामशितनेतृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥