छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य क्व मूलꣳ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥
यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत् , तस्य अस्य शरीरस्य क्व मूलं स्यात् भवेत् इत्येवं पृष्टः आह पिता — तस्य क्व मूलं स्यात् अन्यत्रान्नादन्नं मूलमित्यभिप्रायः । कथम् ? अशितं हि अन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते । रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम् । तथा योषिद्भुक्तं च अन्नं रसादिक्रमेणैवं परिणतं लोहितं भवति । ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेन एवं प्रत्यहं भुज्यमानेन आपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्यहमुपचीयमानः अन्नमूलः देहशुङ्गः परिनिष्पन्न इत्यर्थः । यत्तु देहशुङ्गस्य मूलमन्नं निर्दिष्टम् , तदपि देहवद्विनाशोत्पत्तिमत्त्वात् कस्माच्चिन्मूलादुत्पतितं शुङ्ग एवेति कृत्वा आह — यथा देहशुङ्गः अन्नमूलः एवमेव खलु सोम्य अन्नेन शुङ्गेन कार्यभूतेन अपो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व ।

अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति –

कथमित्यादिना ।

तथा पुरुषभुक्तान्नवदिति यावत् ।

तथाऽपि कथं सतो मूलस्य सिद्धिरत आह –

यत्त्विति ।