छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥
यदि एतत्प्रत्यक्षीकर्तुमिच्छसि अतोऽस्मान्महतः न्यग्रोधात् फलमेकमाहर — इत्युक्तः तथा चकार सः ; इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रति आह — फलं भिन्द्धीति । भिन्नमित्याह इतरः । तमाह पिता — किमत्र पश्यसीति ; उक्तः आह — अण्व्यः अणुतरा इव इमाः धानाः बीजानि पश्यामि भगव इति । आसां धानानामेकां धानाम् अङ्ग हे वत्स भिन्द्घि, इत्युक्तः आह — भिन्ना भगव इति । यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसि, इत्युक्तः आह — न किञ्चन पश्यामि भगव इति ॥

स्थूलस्य कार्यस्य सूक्ष्ममुख्यकारणत्वमेतदित्युच्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति –

अत इति ॥१॥