यथाबन्धनं बन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति –
नेतर इति ।
व्याख्यातं दृष्टान्तं सोपस्करमनुवदति –
यथेत्यादिना ।
दार्ष्टान्तिकं व्याचष्टे –
एवमिति ।
आदिशब्देन वाव्याकाशौ गृह्येते । मयड्विकारार्थः ।
देहारण्यस्यानेकानर्थसङ्कटत्वं कथयति –
वातेति ।
शीतौष्णादीत्यादिपदेन रागद्वेषादिद्वन्द्वं गृहीतं तेनानेकेन द्वन्द्वेन जातं सुखं दुःखं च तदुपेतमिदं देहारण्यमित्येतत् । बन्ध्वादीत्यादिशब्दो मित्रक्षेत्रादिविषयः । पुण्यापुण्यादीत्यादिपदमविद्याकामवासनासंग्रहार्थम् ।
देहारण्यं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति –
अहमित्यादिना ।
तस्य सदा दुःखित्वशङ्कां वारयति –
कथञ्चिदेवेति ।
आपाततो ब्रह्मवित्त्वमात्रेण मुक्तबन्धनत्वासिद्धेर्विशिनष्टि –
ब्रह्मिष्ठमिति ।
यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र सम्बन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुत्वादिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शितसंसारविषयदोषदर्शनमार्गः ।
आचार्येण साधनचतुष्टयसम्पन्नस्याधिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति –
नासीति ।
यद्यपि वाक्यार्थज्ञाने वाक्यमेवोपायस्तथाऽप्याचार्योपदेशजनितातिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञाने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसम्भवनानिरसनसमर्थो विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोगादिति भावः ।
पुरुषव्यत्यये हेतुमाह –
सामर्थ्यादिति ।
अस्मद्युपपदेऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्देहादिस्थित्यनुपपत्तेर्वेत्यर्थः ।
यावदित्यादिवाक्यार्थं स्पष्टयति –
येनेति ।
पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति ।
अथशब्दस्य सत्सम्पत्तेर्देहमोक्षादानन्तर्यमर्थो भविष्यतीत्याशङ्क्याऽऽह –
न हीति ।