छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥
संसारिणः यः मरणक्रमः स एवायं विदुषोऽपि सत्सम्पत्तिक्रम इत्येतदाह — परस्यां देवतायां तेजसि सम्पन्ने अथ न जानाति । अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति । विद्वांस्तु शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य न आवर्तते इत्येष सत्सम्पत्तिक्रमः । अन्ये तु मूर्धन्यया नाड्या उत्क्रम्य आदित्यादिद्वारेण सद्गच्छन्तीत्याहुः ; तदसत् , देशकालनिमित्तफलाभिसन्धानेन गमनदर्शनात् । न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलाद्यनृताभिसन्धिरुपपद्यते, विरोधात् । अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वात् गमनानुपपत्तिरेव ; ‘पर्योप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) इत्याद्याथर्वणे नदीसमुद्रदृष्टान्तश्रुतेश्च ॥

नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्सम्पत्तिक्रमस्तयोर्विशेषस्य वक्तव्यत्वादत आह –

संसारिण इति ।

करणोपरमे तेजःसहचरितभूतसूक्ष्मोपसंहारे च विशेषविज्ञानाभावः समान एव विद्वदविदुषोरित्यर्थः ।

कस्तर्हि तयोर्विशेषस्तत्राऽऽह –

अविद्वानिति ।

सतस्तस्मादज्ञातात्सदात्मनः सकाशादिति यावत् ।

एकदेशिमतमुत्थाप्य प्रत्याचष्टे –

अन्ये त्विति ।

भवतु विदुषोऽपि तदभिसन्धिपूर्वकं गमनमित्याशङ्क्याऽऽह –

न हीति ।

आदिशब्देन गत्यागती गृह्येते ।

सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –

अविद्येति ।

विदुषोऽविद्याकामकर्मणामभावे प्रमाणमाह –

पर्याप्तकामस्येति ।

ननु कामप्रविलय एवात्र श्रूयते नाविद्याकामकर्मनिर्मोकस्तत्राऽऽह –

नदीति ।

यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नामरूपबीजावस्थाविद्याया लयो गम्यते न चाविद्याकामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपुर्विका सत्सम्पत्तिरित्यर्थः ॥२॥