छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
पुरुषꣳ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
शृणु — यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तम् आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्च आहुः — अपहार्षीद्धनमस्यायम् । ते च आहुः — किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात् ; इत्युक्ताः पुनराहुः — स्तेयमकार्षीत् चौर्येण धनमपहार्षीदिति । तेष्वेवं वदत्सु इतरः अपह्नुते — नाहं तत्कर्तेति । ते च आहुः — सन्दिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपह्नुवाने आहुः — परशुमस्मै तपतेति शोधयत्वात्मानमिति । स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवंभूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । स तथा अनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्णाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण ॥

परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । परस्वग्रहणमात्रेण बन्धेन प्रतिग्रहीतुरपि बन्धप्रसङ्गान्न तन्मात्रं बन्धनकारणमित्याह –

अन्यथेति ।

तत एवानृताभिसन्धत्वादेवेत्यर्थः ॥१॥