तदनुवादपूर्वकं दार्ष्टान्तिकमाह –
स यथेति ।
स य एषोऽणिमेत्यादि व्याचष्टे –
यदात्मेति ।
त्वं तदसीति त्वमर्थोद्देशेन तदर्थभावो विधीयते तत्रोद्देश्यस्य शरीरद्वयविशिष्टस्य विरोधादशरीरब्रह्मात्मत्वं विधातुमशक्यमिति मन्वानश्चोदयति –
कः पुनरिति ।
त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्मत्वायोगस्त्वयोच्यते ? नाऽऽद्योऽङ्गीकारान्न द्वितीयःशरीरद्वयवैशिष्ट्योपलक्षितस्य श्रोतृत्वाद्यध्यासास्पदस्य त्वंपदलक्ष्यस्य ब्रह्मत्वविधाने विरोधास्फुरणादिति परिहरति –
योऽहमिति ।
विज्ञाय च वेदेति पूर्वेण सह सम्बन्धः ।
तस्य सतः सकाशादौपाधिको भेदो वस्तुतस्त्वैक्यमिति मत्वाऽऽह –
तेजोबन्नमयमिति ।
त्वंपदार्थं श्वेतकेतुं निर्धार्य तद्धास्येत्यादि व्याचष्टे –
आत्मानमिति ।