छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
ऋग्वेदं भगवः अध्येमि स्मरामि, ‘यद्वेत्थ’ इति विज्ञानस्य पृष्टत्वात् । तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वात् इतिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः । व्याकरणेन हि पदादिविभागशः ऋग्वेदादयो ज्ञायन्ते ; पित्र्यं श्राद्धकल्पम् ; राशिं गणितम् ; दैवम् उत्पातज्ञानम् ; निधिं महाकालादिनिधिशास्त्रम् ; वाकोवाक्यं तर्कशास्त्रम् ; एकायनं नीतिशास्त्रम् ; देवविद्यां निरुक्तम् ; ब्रह्मणः ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितयः ; भूतविद्यां भूततन्‍त्रम् ; क्षत्रविद्यां धनुर्वेदम् ; नक्षत्रविद्यां ज्यौतिषम् ; सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यशिल्पादिविज्ञानानि ; एतत्सर्वं हे भगवः अध्येमि ॥

अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्क्याऽह –

यद्वेत्थेति ।

गन्धयुक्तिः कुङ्कुमादिसम्पादनम् ॥२॥