छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
सोऽहं भगवो मन्‍त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
सोऽहं भगवः एतत्सर्वं जानन्नपि मन्‍त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः । सर्वो हि शब्दः अभिधानमात्रम् अभिधानं च सर्वं मन्त्रेष्वन्तर्भवति । मन्‍त्रविदेवास्मि मन्‍त्रवित्कर्मविदित्यर्थः । ‘मन्त्रेषु कर्माणि’ (छा. उ. ७ । ४ । १) इति हि वक्ष्यति । न आत्मवित् न आत्मानं वेद्मि । नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्‍त्रविच्चेत् नात्मवित् ? न, अभिधानाभिधेयभेदस्य विकारत्वात् । न च विकार आत्मेष्यते । नन्वात्माप्यात्मशब्देन अभिधीयते । न, ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १), ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) इत्यादिश्रुतेः । कथं तर्हि ‘आत्मैवाधस्तात्’ (छा. उ. ७ । २५ । २) ‘स आत्मा’ (छा. उ. ६ । १६ । १) इत्यादिशब्दाः आत्मानं प्रत्याययन्ति ? नैष दोषः । देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दः देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सत् , अवाच्यमपि प्रत्याययति — यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहिते अदृश्यमानेऽपि राजनि एष राजा दृश्यत इति भवति शब्दप्रयोगः ; तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्याने अन्यस्मिन्नदृश्यमानेऽपि राजनि राजप्रतीतिर्भवेत् — तद्वत् । तस्मात्सोऽहं मन्‍त्रवित् कर्मविदेवास्मि, कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि, न आत्मवित् न आत्मप्रकृतिस्वरूपज्ञ इत्यर्थः । अत एवोक्तम् ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) इति ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यश्च । श्रुतमागमज्ञानमस्त्येव हि यस्मात् मे मम भगवद्दॄशेभ्यो युष्मत्सदृशेभ्यः तरति अतिक्रमति शोकं मनस्तापम् अकृतार्थबुद्धिताम् आत्मवित् इति ; अतः सोऽहमनात्मवित्त्वात् हे भगवः शोचामि अकृतार्थबुद्ध्या सन्तप्ये सर्वदा ; तं मा मां शोकस्य शोकसागरस्य पारम् अन्तं भगवान् तारयतु आत्मज्ञानोडुपेन कृतार्थबुद्धिमापादयतु अभयं गमयत्वित्यर्थः । तम् एवमुक्तवन्तं ह उवाच — यद्वै किञ्च एतदध्यगीष्ठाः अधीतवानसि, अध्ययनेन तदर्थज्ञानमुपलक्ष्यते, ज्ञातवानसीत्येतत् , नामैवैतत् , ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः ॥

तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्क्याऽऽह –

सोऽहमिति ।

कथं मन्त्रविदित्यस्य कर्मविदिति व्याख्यानमित्याशङ्क्याऽऽह –

मन्त्रेऽष्विति ।

मन्त्रविदेव नाऽऽत्मविदित्यत्र विरोधं चोदयति –

नन्विति ।

मन्त्रवित्त्वे तत्प्रकाश्यात्मवित्त्वमपि स्यात्तदभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः ।

अभिधानमभिधेयमित्येवं रूपस्य भेदस्य विकारत्वेन मिथ्यात्वादात्मनश्च विकारत्वानङ्गीकारान्मन्त्रप्रकाश्यत्वाभावान्न विरोध इति परिहरति –

नाभिधानेति ।

आत्मनो विकारत्वाभावेऽप्यभिधेयत्वमेष्टव्यमिति शङ्कते –

नन्विति ।

श्रुत्यन्तरावष्टम्भेन निराचष्टे –

नेत्यादिना ।

आत्मशब्देनाऽऽत्मनोऽभिधेयत्वाभावे वाक्यशेषादिविरोधः स्यादित्याशङ्कते –

कथं तर्हीति ।

आत्मशब्देनावाच्यस्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्तीत्युत्तरमाह –

नैष दोष इति ।

विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः ।

केवलात्मविषयस्याऽऽत्मशब्दस्य तद्दर्शनमन्तरेण विशिष्टात्मदृष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितात्मधीरित्याशङ्क्य दृष्टान्तेन परिहरति –

थेत्यादिना ।

आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभावे फलितमाह –

तस्मादिति ।

शब्दार्थज्ञानमात्रेणाऽऽत्मवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनितज्ञानवत एवाऽऽत्मवित्त्वमित्युक्तं तत्र प्रमाणमाह –

अत एवेति ।

औपदेशिकज्ञानविषयत्वं तर्हि स्वीकृतमित्याशङ्क्याऽऽह –

यत इति ।

मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोकनिवृत्त्युपायत्वेन तदपेक्षां सूचयति –

श्रुतमिति ।

आत्मज्ञानोडुपेनाऽऽत्मज्ञानाख्येन प्लवेनेति यावत् ।

कथं मदीयमर्थज्ञानं सर्वं नाममात्रमित्याशङ्क्याऽऽह –

वाचाऽऽरम्भणमिति ॥३॥