वाग्वाव नाम्नो भूयसीत्युक्तं वाङ्नाम्नोरेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्क्य व्याचष्टे –
वागितीन्द्रियमिति ।
जिह्वामूलादिष्वित्यादिशब्देनोरःकण्ठथशिरोदन्तौष्ठनासिकातालूनि गृह्यन्ते ।
वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्ग्येभ्यो भूयस्त्वेऽपि नाम्नस्तु भूयस्त्वं कुतस्त्यमित्याशङ्क्याऽऽह –
वर्णाश्चेति ।
तयोर्व्यङ्ग्यव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याशङ्क्याऽऽह –
कार्याद्धीति ।
वाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चयति –
कथं चेत्यादिना ।
इतश्च वाचो भूयस्त्वमेष्टव्यमित्याह –
यद्यदीति ।
अन्वयव्यतिरेकाभ्यां तस्या भूयस्त्वे सिद्धे फलितमाह –
तस्मादिति ॥१॥