आत्मातिरिक्तानां लोकानां कथं नित्यत्वमत आह –
अत्यन्तेति ।
लोकानामेवं ध्रुवत्वमुच्यतां किमिति लोकिनस्तदुच्यते तत्राऽऽह –
लोकिनो हीति ।
कथमुपकरणसंपन्नेषु प्रतिष्ठितशब्दो भवतीत्याशङ्क्याऽऽह –
पशुपुत्रादिभिरिति ।
यावत्संकल्पस्येत्यादिश्रुतेर्विषयसंकोचं दर्शयति –
आत्मन इति ।
संकल्पस्य यावद्गोचरस्तत्रास्य कामचारो भवतीति सम्बन्धः ।
निरङ्कुशे संकल्पशब्दे का हानिरित्याशङ्क्याऽऽह –
उत्तरेति ।
यदि संकल्पमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावच्चित्तस्य गतमित्यादिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताद्युपासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥३॥