छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
चित्तं वाव सङ्कल्पाद्भूयः । चित्तं चेतयितृत्वं प्राप्तकालानुरूपबोधवत्त्वम् अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं च, तत्सङ्कल्पादपि भूयः । कथम् ? यदा वै प्राप्तं वस्तु इदमेवं प्राप्तमिति चेतयते, तदा तदादानाय वा अपोहाय वा अथ सङ्कल्पयते अथ मनस्यतीत्यादि पूर्ववत् ॥

चित्तशब्दस्य मनःशब्देन पुनरुक्तिं परिहरति –

चित्तं चेतयितृत्वमिति ।

तस्याऽऽत्मत्वं व्यावर्तयति –

प्राप्तेति ।

इदं वस्त्वेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेतनाख्यो वृत्तिविशेषस्तद्वत्त्वं चित्तत्त्वमित्यर्थः ।

अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादागामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपणसामर्थ्यं चित्तमिति प्रसिद्धमित्याह –

अतीतेति ।

यथोक्तस्य चित्तस्य संकल्पाद्भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति –

कथमित्यादिना ।

संकल्पप्रकरणं परामृशति –

पूर्ववदिति ॥१॥