छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥
तानि सङ्कल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानीत्यपि पूर्ववत् । किञ्च चित्तस्य माहात्म्यम् । यस्माच्चित्तं सङ्कल्पादिमूलम् , तस्मात् यद्यपि बहुवित् बहुशास्त्रादिपरिज्ञानवान्सन् अचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति, तं निपुणाः लौकिकाः नायमस्ति विद्यमानोऽप्यसत्सम एवेति एनमाहुः । यच्चायं किञ्चित् शास्त्रादि वेद श्रुतवान् तदाप्यस्य वृथैवेति कथयन्ति । कस्मात् ? यद्ययं विद्वान्स्यात् इत्थमेवमचित्तो न स्यात् , तस्मादस्य श्रुतमप्यश्रुतमेवेत्याहुरित्यर्थः । अथ अल्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै तदुक्तार्थग्रहणायैव उत अपि शुश्रूषन्ते श्रोतुमिच्छन्ति तस्माच्च । चित्तं ह्येवैषां सङ्कल्पादीनाम् एकायनमित्यादि पूर्ववत् ॥

यथा संकल्पस्य निमित्तत्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह –

तानीति ।

इतश्च चित्तस्यास्ति वैशिष्ट्यमाह –

किंचेति ।

यद्यपि बहुशास्त्रार्थपरिज्ञानवान्संस्तथाऽपि यद्यचित्तो भवतीति योजना ।

अचित्तस्यासत्समत्वं श्रुतवैयर्थ्यं चेत्युक्तं प्रश्नद्वारा विवृणोति –

कस्मादित्यादिना ।

श्रुतमपीत्यपिशब्देन सत्त्वं गृह्यते ।

चित्ताभावे श्रुतादेर्वैयर्थ्योक्त्या तद्वैशिष्ट्यमादिष्टमिदानीं तद्वैशिष्ट्ये हेत्वन्तरमाह –

अथेति ।

चित्तवतोक्तार्थग्रहणार्थं श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह –

तस्मादिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चमः खण्डः ॥