छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
ध्यानं वाव चित्ताद्भूयः । ध्यानं नाम शास्त्रोक्तदेवताद्यालम्बनेष्वचलः भिन्नजातीयैरनन्तरितः प्रत्ययसन्तानः, एकाग्रतेति यमाहुः । दृश्यते च ध्यानस्य माहात्म्यं फलतः । कथम् ? यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे, एवं ध्यायतीव निश्चला दृश्यते पृथिवी । ध्यायतीवान्तरिक्षमित्यादि समानमन्यत् । देवाश्च मनुष्याश्च देवमनुष्याः मनुष्या एव वा देवसमाः देवमनुष्याः शमादिगुणसम्पन्नाः मनुष्याः देवस्वरूपं न जहतीत्यर्थः । यस्मादेवं विशिष्टं ध्यानम् , तस्मात् य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः । ध्यानापादांशा इव ध्यानस्य आपादनम् आपादः ध्यानफललाभ इत्येतत् , तस्यांशः अवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः । ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव । अथा ये पुनरल्पाः क्षुद्राः किञ्चिदपि धनादिमहत्त्वैकदेशमप्राप्ताः ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासकाः उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं शीलं येषां ते उपवादिनश्च भवन्ति । अथ ये महत्त्वं प्राप्ताः धनादिनिमित्तं ते अन्यान्प्रति प्रभवन्तीति प्रभवः विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्याद्युक्तार्थम् । अतः दृश्यते ध्यानस्य महत्त्वं फलतः ; अतः भूयश्चित्तात् ; अतस्तदुपास्स्व इत्याद्युक्तार्थम् ॥

क तद्ध्यानमित्यपेक्षायामाह –

ध्यानं नामेति ।

अचलत्वं साधयति –

भिन्नजातीयैरिति ।

कथं तस्य चित्ताद्भयस्त्वमित्याशङ्क्यानेकाग्रतादोषोपहतस्यातीतादिफलनिरूपणेन सामर्थ्यादर्शनादेकाग्रतारूपो ध्यानपदार्थश्चेतयितृत्वात्तस्य कारणत्वात्ततो भयानेवेत्यभिप्रेत्याऽऽह –

एकाग्रतेति ।

इतश्चास्ति तस्य भूयस्त्वमित्याह –

दृश्यते चेति ।

फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति –

कथमित्यादिना ।

गौरवपरिहारार्थं पक्षान्तरमाह –

मनुष्या एवेति ।

मनुष्याणामेव सतां कुतो देवत्वमित्याशङ्क्याऽऽह –

शमादीति ।

ध्यानफलं नैश्चल्यं तन्महत्सु पृथिव्यादिषु दृष्टं तथाच तद्वैशिष्ट्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह –

यस्मादिति ।

धनादिभिर्महत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा ।

ध्यानफललाभकलावत्त्वमेव स्फुटयति –

निश्चला इति ।

एवकारार्थमाह –

नेति ।

महत्सु पुरुषेषु ध्यानफलानुवृत्तिर्दृष्टैत्यन्वयमुक्त्वा व्यतिरेकमाह –

अथेति ।

व्यतिरेकं दर्शयित्वाऽन्वयमुपसंहरति –

अथ ये महत्त्वमिति ।

महत्सु नैश्चल्यदर्शनमतः शब्दार्थः ।

महत्त्वफलमाह –

अत इति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षष्ठः खण्डः ॥