छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्त्रविद्यां नक्षत्रविद्याꣳ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥
विज्ञानं वाव ध्यानाद्भूयः । विज्ञानं शास्त्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वात् ध्यानाद्भूयस्त्वम् । कथं च तस्य भूयस्त्वमिति, आह — विज्ञानेन वै ऋग्वेदं विजानाति अयमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् । तथा यजुर्वेदमित्यादि । किञ्च पश्वादींश्च धर्माधर्मौ शास्त्रसिद्धौ साध्वसाधुनी लोकतः स्मार्ते वा दृष्टविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थः । तस्माद्युक्तं ध्यानाद्विज्ञानस्य भूयस्त्वम् । अतो विज्ञानमुपास्स्वेति ॥

विज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति –

कथमित्यादिना ।

यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भूयस्त्वं तत्राऽऽह –

यस्येति ।

इतश्च तस्य ध्यानाद्भूयस्त्वमित्याह –

किंचेति ।

भूयस्त्वफलमाह –

अत इति ॥१॥