तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥
तेजो वाव अद्भ्यो भूयः, तेजसोऽप्कारणत्वात् । कथमप्कारणत्वमिति, आह — यस्मादब्योनिस्तेजः, तस्मात् तद्वा एतत्तेजो वायुमागृह्य अवष्टभ्य स्वात्मना निश्चलीकृत्य वायुम् आकाशमभितपति आकाशमभिव्याप्नुवत्तपति यदा, तदा आहुर्लौकिकाः — निशोचति सन्तपति सामान्येन जगत् , नितपति देहान् , अतो वर्षिष्यति वै इति । प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्यं भविष्यतीति विज्ञानम् । तेज एव तत्पूर्वमात्मानमुद्भूतं दर्शयित्वा अथ अनन्तरम् अपः सृजते, अतः अप्स्रष्टृत्वाद्भूयोऽद्भ्यस्तेजः । किञ्चान्यत् , तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति । कथम् ? ऊर्ध्वाभिश्च ऊर्ध्वगाभिः विद्युद्भिः तिरश्चीभिश्च तिर्यग्गताभिश्च सह आह्रादाः स्तनयनशब्दाश्चरन्ति । तस्मात्तद्दर्शनादाहुर्लौकिकाः — विद्योतते स्तनयति, वर्षिष्यति वै इत्याद्युक्तार्थम् । अतस्तेज उपास्स्वेति ॥