छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
तस्य तेजस उपासनफलम् — तेजस्वी वै भवति । तेजस्वत एव च लोकान्भास्वतः प्रकाशवतः अपहततमस्कान् बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कान् अभिसिध्यति । ऋज्वर्थमन्यत् ॥

तमःशब्दार्थमाह –

बाह्येति ।

बाह्यं तमः शार्वरं प्रसिद्धमाध्यात्मिकज्ञानरागादि तदुभयमपहततमस्कानित्यत्र तमःशब्दितमित्यर्थः ।

अपहतशब्दार्थमाह –

अपनीतेति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकादशः खण्डः ॥