छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
आकाशो वाव तेजसो भूयान् , वायुसहितस्य तेजसः कारणत्वाद्व्योम्नः । ‘वायुमागृह्य’ (छा. उ. ७ । ११ । १) इति तेजसा सहोक्तः वायुरिति पृथगिह नोक्तस्तेजसः । कारणं हि लोके कार्याद्भूयो दृष्टम् — यथा घटादिभ्यो मृत् , तथा आकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् । कथम् ? आकाशे वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशेऽन्तः । यच्च यस्यान्तर्वर्ति तदल्पम् , भूय इतरत् । किञ्च आकाशेन आह्वयति च अन्यमन्यः ; आहूतश्चेतरः आकाशेन शृणोति ; अन्योक्तं च शब्दम् अन्यः प्रतिशृणोति ; आकाशे रमते क्रीडत्यन्योन्यं सर्वः ; तथा च रमते च आकाशे बन्ध्वादिवियोगे ; आकाशे जायते, न मूर्तेनावष्टब्धे । तथा आकाशमभि लक्ष्य अङ्कुरादि जायते, न प्रतिलोमम् । अतः आकाशमुपास्स्व ॥

वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत आह –

वायुरिति ।

कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्क्याऽऽह –

कारणं हीति ।

तेजसो वायुसहितादाकाशस्य भूयस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति –

कथमित्यादिना ।

इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह –

किंचेति ।

तद्भूयस्त्वफलमाह –

अत इति ॥१॥