छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
स्मरो वाव आकाशाद्भूयः, स्मरणं स्मरोऽन्तःकरणधर्मः, स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन । स्मर्तुः स्मरणे हि सति आकाशादि सर्वमर्थवत् , स्मरणवतो भोग्यत्वात् । असति तु स्मरणे सदप्यसदेव, सत्त्वकार्याभावात् । नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्य आकाशाद्भूयस्त्वम् । दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात् , तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन् उपविशेयुः, ते तत्र आसीनाः अन्योन्यभाषितमपि न स्मरन्तश्चेत्स्युः, नैव ते कञ्चन शब्दं शृणुयुः ; तथा न मन्वीरन् , मन्तव्यं चेत्स्मरेयुः तदा मन्वीरन् , स्मृत्यभावान्न मन्वीरन् ; तथा न विजानीरन् । यदा वाव ते स्मरेयुर्मन्तव्यं विज्ञाताव्यं श्रोतव्यं च, अथ शृणुयुः अथ मन्वीरन् अथ विजानीरन् । तथा स्मरेण वै — मम पुत्रा एते — इति पुत्रान्विजानाति, स्मरेण पशून् । अतो भूयस्त्वात्स्मरमुपास्स्वेति । उक्तार्थमन्यत् ॥

नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्यातमित्याशङ्क्य पुंलिङ्गोपक्रममाश्रित्याऽऽह –

लिङ्गव्यत्ययेनेति ।

कथं पुनः स्मरणस्याऽऽकाशाद्भूयस्त्वमित्याशङ्क्याऽऽह –

स्मरणे हीति ।

अन्वयमुक्त्वा व्यतिरेकं दर्शयति –

असतीति ।

आकाशादेः स्मरणाभावेऽपि सत्त्वमङ्गीकृत्य भोग्यत्वाभावादानर्थक्यमुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह –

नापीति ।

स्मरणस्य भूयस्त्वमनुभवानुसारेण साधयति –

दृश्यते हीति ।

हिशब्दार्थो यस्मादित्युक्तः ।

स्मरणाभावे श्रवणाद्यभावं व्यतिरेकमुक्त्वा तद्भावे तद्भावमन्वयमाह –

यदेति ।

इतश्चास्ति स्मरणस्य भूयस्त्वमित्याह –

तथेति ।

तद्भूयस्त्वे फलितमाह –

अत इति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोदशः खण्डः ॥