छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥
कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति, उच्यते — सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात् तदुत्क्रान्तौ च प्रयोगाभावात् । कथं तदिति, आह — स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्याह, तदैनं पार्श्वस्था आहुः विवेकिनः — धिक्त्वा अस्तु धिगस्तु त्वामित्येवम् । पितृहां वै त्वं पितुर्हन्तेत्यादि ॥

प्रसिद्धिरनतिक्रमणीयेति शङ्कते –

कथमिति ।

अन्वयव्यतिरेकाभ्यां पित्रादिशब्दानां प्राणविषयत्वान्न प्रसिद्धेरुल्लङ्घनमित्याह –

उच्यत इति ।

अन्वयव्यतिरेकावेव प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

पित्रादिषु प्राणे सति पित्रादिशब्दानां प्रयुज्यमानत्वमन्यथा चाप्रयुज्यमानत्वं तदित्युच्यते । त्वंकारादियुक्तमित्यादिपदेन तिरस्कारप्रभेदो गृह्यते ।

पित्रादिष्वप्रियवादिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –

पितृहेति ॥२॥