छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥
एष तु वा अतिवदति, यमहं वक्ष्यामि । न प्राणविदतिवादी परमार्थतः । नामाद्यपेक्षं तु तस्यातिवादित्वम् । यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद, सोऽतिवादीत्याह — एष तु वा अतिवदति यः सत्येन परमार्थसत्यविज्ञानवत्तया अतिवदति । सोऽहं त्वां प्रपन्नः भगवः सत्येनातिवदानि ; तथा मां नियुनक्तु भगवान् , यथा अहं सत्येनातिवदानीत्यभिप्रायः । यद्येवं सत्येनातिवदितुमिच्छसि, सत्यमेव तु तावद्विजिज्ञासितव्यमित्युक्त आह नारदः । तथास्तु तर्हि सत्यं भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तोऽहमिति ॥

कथं तर्हि प्राणविदोऽतिवादित्वमुक्तं तत्राऽऽह –

नामादीति ।

कस्तर्हि परमार्थतोऽतिवादीत्याशङ्क्याऽऽह –

यस्त्विति ।

सोऽतिवादीति यतः सनत्कुमारस्याभिप्रायोऽत एवाऽऽहेति योजना ।

ननु नारदस्य नाद्यापि सत्यविज्ञानमुत्पन्नं कथं सत्येनातिवदानीति पृच्छति तत्राऽऽह –

तथेति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षोडशः खण्डः ॥