यदा वै विजानातीत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह –
यदेति ।
यदि विश्वं सद्रूपादनुगताद्भिन्नमसदेव स्याद्यदि त्वभिन्नं सन्मात्रमेव परमार्थसत्यं सिद्ध्येदिति परमार्थतः सत्यं यदैव विजानातीत्यर्थः ।
विज्ञानप्रकारमभिनयति –
इदमिति ।
ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतुत्वद्योतनार्थोऽथशब्दः ।
श्रत्यन्तरावष्टम्भेन भेदाभेदवादी शङ्कते –
नन्विति ।
किं बृहदारण्यकश्रुत्या विकारस्य सत्यत्वमुक्तमित्येतावन्मात्रमुच्यते किं वा परमार्थसत्यत्वमिति विकल्प्याऽऽद्यमंगीकरोति –
सत्यमिति ।
द्वितीयं दूषयति –
न त्विति ।
भेदाभेदयोर्विरोधादेकोपाधावयोगाद्विकारस्य च रज्जुसर्पवन्मिथ्यात्वानुमानादत्यन्ताबाध्यत्वाभिप्रायेण सत्यत्वं श्रुत्यन्तरेणैवोक्तमित्यर्थः ।
कथं तर्हि प्राणादिषु सत्यत्वमुक्तमित्याशङ्क्याङ्गीकारं स्फोरयति –
किं तर्हीति ।
इन्द्रियजनितसद्बुद्धिविषयत्वापेक्षं भूयत्रयं सदित्युच्यते । तदविषयत्वापेक्षं भूतद्वयं त्यदिति व्यवह्रियते । तथा च भूतपञ्चकं सच्च त्यच्चेति व्युत्पाद्य सत्यममिति यथोक्तं तथा तद्बीजभूतयोर्नामरूपयोस्तदात्मकत्वाच्च प्राणानां सत्यत्वं व्यावहारिकमिष्टमित्यर्थः ।
इतश्च प्राणादिषु मिथ्याभूतेष्वपि सत्यश्रुतिरविरुद्धेत्याह –
तद्द्वारेणेति ।
प्राणादीनां व्यावहारिकसत्यत्वानुवादद्वारेणाध्यारोपापवादन्यायेन परमार्थसत्यस्य ब्रह्मणोऽवगतिर्विवक्षितेति कृत्वा तेष्वपि सत्यत्वश्रुतिरविरुद्धेत्यर्थः ।
यथोक्तोऽर्थो विवक्षितो बृहदारण्यकश्रुतावित्यत्र गमकमाह –
प्राणा वा इति ।
ननु श्रुत्यन्तरे विकारस्यापि व्यावहारिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भूम्न एव सत्यत्वाङ्गीकारात्तथा च विरोधतादवस्थ्यमत आह –
इहापीति ।
यदि प्राणस्यापि व्यवहारतः सत्यत्वमुपगतं किं तर्हि सनत्कुमारस्य विवक्षितमित्याशङ्क्याऽऽह –
इह त्विति ।
यदा वै विजानात्यथ सत्यं वदतीति यद्व्याख्यातं तदन्वयव्यतिरेकाभ्यां स्फुटयन्नादौ व्यतिरेकमाह –
नाविजानन्निति ।
परमार्थसत्यमविजानन्नपि वदत्यग्न्यादीनित्याशङ्क्याऽऽह –
यस्त्विति ।
तर्हि कथं सदेव परमार्थसत्यमिति वदतोऽभीष्टसिद्धिरित्याशङ्क्याऽऽह –
न त्विति ।
तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह –
तथेति ।
अतोऽस्य नास्ति सत्यवादित्वं किंत्वसत्यवादित्वमेवेत्युपसंहरति –
इत्यत इति ।
व्यतिरेकं दर्शयित्वाऽन्वयमन्वाचष्टे –
विजानन्नेवेति ।
अस्तु तर्हि सत्यविज्ञानपूर्वकमतिवादित्वमित्याशङ्क्याऽऽह –
न चेति ।
यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेयमित्येवमिष्टं चेदित्यर्थः ।
सत्यवदनं प्रति सत्यविज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्वस्योत्तरमुत्तरं कारणत्वेन द्रष्टव्यमित्यतिदिशति –
एवमिति ॥१॥