छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥
यदा वै सत्यं परमार्थतः विजानाति — इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेव अथ वदति यद्वदति । ननु विकारोऽपि सत्यमेव, ‘नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः’ (बृ. उ. १ । ६ । ३) ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०) इति श्रुत्यन्तरात् । सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य, न तु परमार्थापेक्षमुक्तम् । किं तर्हि ? इन्द्रियविषयाविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च परमार्थसत्यस्योपलब्धिर्विवक्षितेति । ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । ३ । ६) इति च उक्तम् । इहापि तदिष्टमेव । इह तु प्राणविषयात्परमार्थसत्त्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यम् , तद्विज्ञापयिष्यामीति एष विशेषतो विवक्षितोऽर्थः । नाविजानन्सत्यं वदति’ यस्त्वविजानन्वदति सोऽग्न्यादिशब्देनाग्न्यादीन्परमार्थसद्रूपान्मन्यमानो वदति’ न तु ते रूपत्रयव्यतिरेकेण परमार्थतः सन्ति । तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति । विजानन्नेव सत्यं वदति । न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याह — विज्ञानं त्वेव विजिज्ञासितव्यमिति । यद्येवम् , विज्ञानं भगवो विजिज्ञासे इति । एवं सत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम् ॥

यदा वै विजानातीत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह –

यदेति ।

यदि विश्वं सद्रूपादनुगताद्भिन्नमसदेव स्याद्यदि त्वभिन्नं सन्मात्रमेव परमार्थसत्यं सिद्ध्येदिति परमार्थतः सत्यं यदैव विजानातीत्यर्थः ।

विज्ञानप्रकारमभिनयति –

इदमिति ।

ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतुत्वद्योतनार्थोऽथशब्दः ।

श्रत्यन्तरावष्टम्भेन भेदाभेदवादी शङ्कते –

नन्विति ।

किं बृहदारण्यकश्रुत्या विकारस्य सत्यत्वमुक्तमित्येतावन्मात्रमुच्यते किं वा परमार्थसत्यत्वमिति विकल्प्याऽऽद्यमंगीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

न त्विति ।

भेदाभेदयोर्विरोधादेकोपाधावयोगाद्विकारस्य च रज्जुसर्पवन्मिथ्यात्वानुमानादत्यन्ताबाध्यत्वाभिप्रायेण सत्यत्वं श्रुत्यन्तरेणैवोक्तमित्यर्थः ।

कथं तर्हि प्राणादिषु सत्यत्वमुक्तमित्याशङ्क्याङ्गीकारं स्फोरयति –

किं तर्हीति ।

इन्द्रियजनितसद्बुद्धिविषयत्वापेक्षं भूयत्रयं सदित्युच्यते । तदविषयत्वापेक्षं भूतद्वयं त्यदिति व्यवह्रियते । तथा च भूतपञ्चकं सच्च त्यच्चेति व्युत्पाद्य सत्यममिति यथोक्तं तथा तद्बीजभूतयोर्नामरूपयोस्तदात्मकत्वाच्च प्राणानां सत्यत्वं व्यावहारिकमिष्टमित्यर्थः ।

इतश्च प्राणादिषु मिथ्याभूतेष्वपि सत्यश्रुतिरविरुद्धेत्याह –

तद्द्वारेणेति ।

प्राणादीनां व्यावहारिकसत्यत्वानुवादद्वारेणाध्यारोपापवादन्यायेन परमार्थसत्यस्य ब्रह्मणोऽवगतिर्विवक्षितेति कृत्वा तेष्वपि सत्यत्वश्रुतिरविरुद्धेत्यर्थः ।

यथोक्तोऽर्थो विवक्षितो बृहदारण्यकश्रुतावित्यत्र गमकमाह –

प्राणा वा इति ।

ननु श्रुत्यन्तरे विकारस्यापि व्यावहारिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भूम्न एव सत्यत्वाङ्गीकारात्तथा च विरोधतादवस्थ्यमत आह –

इहापीति ।

यदि प्राणस्यापि व्यवहारतः सत्यत्वमुपगतं किं तर्हि सनत्कुमारस्य विवक्षितमित्याशङ्क्याऽऽह –

इह त्विति ।

यदा वै विजानात्यथ सत्यं वदतीति यद्व्याख्यातं तदन्वयव्यतिरेकाभ्यां स्फुटयन्नादौ व्यतिरेकमाह –

नाविजानन्निति ।

परमार्थसत्यमविजानन्नपि वदत्यग्न्यादीनित्याशङ्क्याऽऽह –

यस्त्विति ।

तर्हि कथं सदेव परमार्थसत्यमिति वदतोऽभीष्टसिद्धिरित्याशङ्क्याऽऽह –

न त्विति ।

तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह –

तथेति ।

अतोऽस्य नास्ति सत्यवादित्वं किंत्वसत्यवादित्वमेवेत्युपसंहरति –

इत्यत इति ।

व्यतिरेकं दर्शयित्वाऽन्वयमन्वाचष्टे –

विजानन्नेवेति ।

अस्तु तर्हि सत्यविज्ञानपूर्वकमतिवादित्वमित्याशङ्क्याऽऽह –

न चेति ।

यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेयमित्येवमिष्टं चेदित्यर्थः ।

सत्यवदनं प्रति सत्यविज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्वस्योत्तरमुत्तरं कारणत्वेन द्रष्टव्यमित्यतिदिशति –

एवमिति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तदशः खण्डः ॥