छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःपञ्चविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदꣳ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषाꣳ सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥
अहङ्कारेण देहादिसङ्घातोऽप्यादिश्यतेऽविवेकिभिः इत्यतः तदाशङ्का मा भूदिति अथ अनन्तरम् आत्मादेशः आत्मनैव केवलेन सत्स्वरूपेण शुद्धेन आदिश्यते । आत्मैव सर्वतः सर्वम् — इत्येवम् एकमजं सर्वतो व्योमवत्पूर्णम् अन्यशून्यं पश्यन् स वा एष विद्वान् मननविज्ञानाभ्याम् आत्मरतिः आत्मन्येव रतिः रमणं यस्य सोऽयमात्मरतिः । तथा आत्मक्रीडः । देहमात्रसाधनाः रतिः बाह्यसाधना क्रीडा, लोके स्त्रीभिः सखिभिश्च क्रीडतीति दर्शनात् । न तथा विदुषः ; किं तर्हि, आत्मविज्ञाननिमित्तमेवोभयं भवतीत्यर्थः । मिथुनं द्वन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः । तथा आत्मानन्दः, शब्दादिनिमित्तः आनन्दः अविदुषाम् , न तथा अस्य विदुषः ; किं तर्हि, आत्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च ; देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्ष इत्यर्थः । स एवंलक्षणः विद्वान् जीवन्नेव स्वाराज्येऽभिषिक्तः पतितेऽपि देहे स्वराडेव भवति । यत एवं भवति, तत एव तस्य सर्वेषु लोकेषु कामचारो भवति । प्राणादिषु पूर्वभूमिषु ‘तत्रास्य’ इति तावन्मात्रपरिच्छिन्नकामचारत्वमुक्तम् । अन्यराजत्वं च अर्थप्राप्तम् , सातिशयत्वात् । यथाप्राप्तस्वाराज्यकामचारत्वानुवादेन तत्तन्निवृत्तिरिहोच्यते — स स्वराडित्यादिना । अथ पुनः ये अन्यथा अतः उक्तदर्शनादन्यथा वैपरीत्येन यथोक्तमेव वा सम्यक् न विदुः, ते अन्यराजानः भवन्ति अन्यः परो राजा स्वामी येषां ते अन्यराजानस्ते किञ्च क्षय्यलोकाः क्षय्यो लोको येषां ते क्षय्यलोकाः, भेददर्शनस्य अल्पविषयत्वात् , अल्पं च तन्मर्त्यमित्यवोचाम । तस्मात् ये द्वैतदर्शिनः ते क्षय्यलोकाः स्वदर्शनानुरूप्येणैव भवन्ति ; अत एव तेषां सर्वेषु लोकेष्वकामचारो भवति ॥

अहंकारादेशात्पृथगात्मादेशस्य तात्पर्यमाह –

अहंकारेणेति ।

उक्तात्मविज्ञानवतः कृतकृत्यतामाह –

आत्मैवेति ।

एकमिति सजातीयभेदराहित्यस्योक्तिः । अन्यशून्यमिति विजातीयभेदशून्यत्वमुच्यते ।

रतिक्रीडयोरवान्तरभेदं दर्शयति –

देहमात्रेति ।

क्रीडा बाह्यसाधनेत्यत्र लोकसंमतिमाह –

लोक इति ।

देहस्य जीविते च भोगत्यागयोश्च निमित्तं बाह्यवस्तु तत्र सर्वत्र निरपेक्षो यदृच्छालाभेष्वासङ्गवर्जितो विद्वानित्याह –

देहेति ।

जीवन्मुक्तिमुक्त्वा विदेहमुक्तिं दर्शयति –

स इति ।

स्वाराज्यं निमित्तीकृत्य फलान्तरमाह –

यत एवमिति ।

स्वाराज्यसर्वलोककामचारयोस्तात्पर्यमाह –

प्राणादिष्विति ।

यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतीत्यादिना परिच्छिन्नं परतन्त्रं च पूर्वभूमिषु फलमुक्तमत्र तु परमानन्दप्राप्तौ तद्व्यावृत्तिरुच्यते न तु सोपाधिकं रूपमित्यर्थः ।

फलप्रदर्शनद्वारेण स्तुत्वा विद्यामविद्वन्निन्दाद्वाराऽपि तां स्तौति –

अथेत्यादिना ।

ते क्षय्यलोका भवन्तीति सम्बन्धः ।

भेददर्शिनां विनाशिफलत्वे हेतुमाह –

भेददर्शनस्येति ।

परिच्छिन्नस्य विनाशित्ववचनं तस्मादिति परामृशति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥