छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥
अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम् अल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म, द्वारपालादिमत्त्वात् । अस्मिन् ब्रह्मपुरे ब्रह्मणः परस्य पुरम् — राज्ञोऽनेकप्रकृतिमद्यथा पुरम् , तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् । पुरे च वेश्म राज्ञो यथा, तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म, ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः । यथा विष्णोः सालग्रामः । अस्मिन्हि स्वविकारशुङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेन आत्मनेत्युक्तम् । तस्मादस्मिन्हृदयपुण्डरीके वेश्मनि उपसंहृतकरणैर्ब्राह्मविषयविरक्तैः विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तैः वक्ष्यमाणगुणवद्ध्यायमानैः ब्रह्मोपलभ्यत इति प्रकरणार्थः । दहरः अल्पतरः अस्मिन्दहरे वेश्मनि वेश्मनः अल्पत्वात्तदन्तर्वर्तिनोऽल्पतरत्वं वेश्मनः । अन्तराकाशः आकाशाख्यं ब्रह्म । ‘आकाशो वै नाम’ (छा. उ. ८ । १४ । १) इति हि वक्ष्यति । आकाश इव अशरीरत्वात् सूक्ष्मत्वसर्वगतत्वसामान्याच्च । तस्मिन्नाकाशाख्ये यदन्तः मध्ये तदन्वेष्टव्यम् । तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः ॥

अध्यायतात्पर्यं संक्षेपविस्तराभ्यां दर्शयित्वा श्रुत्यक्षराणि व्याकरोति –

अथेत्यादिना ।

उत्तमबुद्धीन्प्रति निर्विशेष ब्रह्मोपदेशानन्तरं मन्दबुद्धीन्प्रति सविशेषमुपदिश्यते ब्रह्मेत्यर्थः ।

तत्र तावदुपास्यायतनं निर्दिशति –

यदिदमिति ।

हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह –

द्वारपालादीति ।

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषय इत्यादिश्रुतेरुक्तहेतुसिद्धिः ।

तस्याऽऽश्रयं दर्शयति –

अस्मिन्निति ।

शरीरस्य ब्रह्मपुरत्वं दृष्टान्तेन साधयति –

राज्ञ इति ।

तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति –

पुरे चेति ।

कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथोक्तवेश्मनिष्ठत्वमित्याशङ्क्याऽऽह –

ब्रह्मण इति ।

ननु संसारिणो ब्रह्मातिरिक्तस्य स्वकर्मोपार्जितेन शरीरेण स्वामित्वसंबन्धो न ब्रह्मणस्तदसंबन्धिनः कथं तत्रोपलब्धिरत आह –

अस्मिन्हीति ।

ब्रह्मणो जीवात्मना सृष्टे कार्ये जलार्कवत्प्रवेशे हृदयपुण्डरीकस्य ब्रह्मोपलब्ध्यधिष्ठानत्वं पूर्वोक्तमविरुद्धमित्याह –

तस्मादिति ।

अन्तराकाशस्यात्यल्पतरत्वे हेतुमाह –

वेश्मन इति ।

आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्तयति –

आकाशाख्यमिति ।

कथं वाक्यशेषेऽप्याकाशशब्दो ब्रह्मणि वर्तते तत्राऽऽह –

आकाश इवेति ।

तस्मिन्यदन्तस्तदाश्रयेण सहान्वेष्टव्यं तस्मिन्वा स्वे महिम्नि यदन्तस्तदाकाशाख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृदयपुण्डरीकावच्छिन्ने नभसि यदन्तराकाशाख्यं ब्रह्म तदन्वेष्टव्यमिति योजना ॥१॥