छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥
तं चेत् एवमुक्तवन्तमाचार्यं यदि ब्रूयुः अन्तेवासिनश्चोदयेयुः ; कथम् ? यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्ने अन्तः दहरं पुण्डरीकं वेश्म, ततोऽप्यन्तः अल्पतर एव आकाशः । पुण्डरीक एव वेश्मनि तावत्किं स्यात् । किं ततोऽल्पतरे खे यद्भवेदित्याहुः । दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते, न किञ्चन विद्यत इत्यभिप्रायः । यदि नाम बदरमात्रं किमपि विद्यते, किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् ? अतः यत्तत्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम् ॥

दहरोऽस्मिन्नित्यादिवाक्यस्य यथाश्रुतमर्थं गृहीत्वा चोद्यमुत्थापयति –

तं चेदिति ।

तदेव चोद्यमाकाङ्क्षाद्वारा विवृणोति –

कथमित्यादिना ।

भवतु परिच्छिन्ने शरीरे पुण्डरीकाकारस्य हृदयस्याल्पत्वं तदन्तर्वर्तिनश्चाऽऽकाशस्य ततोऽप्यल्पतरत्वं तथाऽपि प्रकृते किं स्यादित्याशङ्क्याऽऽह –

पुण्डरीक एवेति ।

किंशब्दस्य प्रश्नविषयत्वं व्यावर्तयति –

न किंचनेति ।

हृदयपुण्डरीकान्तर्वर्तिनमाकाशमुपेत्याऽऽद्यं दूषयति –

यदि नामेति ।

फलानुपलम्भोऽतःशब्दः । तत्रेत्यन्तर्वर्त्याकाशोक्तिः ।

शिष्याचार्यव्यतिरिक्तस्यात्राप्रस्तुतत्वात्कस्येदं नियोगवचनमित्याशङ्क्याऽऽह –

इति श्रुतेरिति ॥२॥