छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामांस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥
अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेत्यादिः । तत् तत्र यथा इह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते अन्तवान्भवति । अथ इदानीं दार्ष्टान्तिकमुपसंहरति — एवमेव अमुत्र अग्निहोत्रादिपुण्यजितो लोकः पराधीनोपभोगः क्षीयत एवेति । उक्तः दोषः एषामिति विषयं दर्शयति — तद्य इत्यादिना । तत् तत्र ये इह अस्मिंल्लोके ज्ञानकर्मणोरधिकृताः योग्याः सन्तः आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात्प्रयन्ति, य एतांश्च यथोक्तान् सत्यान् सत्यसङ्कल्पकार्यांश्च स्वात्मस्थान्कामान् अननुविद्य व्रजन्ति, तेषां सर्वेषु लोकेषु अकामचारः अस्वतन्‍त्रता भवति — यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः । अथ ये अन्ये इह लोके आत्मानं शास्त्राचार्योपदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामान् , तेषां सर्वेषु लोकेषु कामचारो भवति — राज्ञ इव सार्वभौमस्य इह लोके ॥

केषामेष दोषो भवतीत्याकाङ्क्षायामाह –

उक्त इति ।

कर्मसाध्यस्य पारतन्त्र्यं क्षयिष्णुत्वं च ज्ञानहीनकर्मसाध्यविषयब्रह्मोपासकानामेष दोषो भवतीति दर्शयत्त्युत्तरं वाक्यमित्यर्थः ।

अविदुषामेवास्वातन्त्र्यदोषमुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति –

अथेत्यादिना ॥६॥

॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाधायस्य प्रथमः खण्डः ॥