छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥
कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते — य आत्मानं यथोक्तलक्षणं हृदि साक्षात्कृतवान् वक्ष्यमाणब्रह्मचर्यादिसाधनसम्पन्नः सन् तत्स्थांश्च सत्यान्कामान् ; स त्यक्तदेहः यदि पितृलोककामः पितरो जनयितारः त एव सुखहेतुत्वेन भोग्यत्वात् लोका उच्यन्ते, तेषु कामो यस्य तैः पितृभिः सम्बन्धेच्छा यस्य भवति, तस्य सङ्कल्पमात्रादेव पितरः समुत्तिष्ठन्ति आत्मसम्बन्धितामापद्यन्ते, विशुद्धसत्त्वतया सत्यसङ्कल्पत्वात् ईश्वरस्येव । तेन पितृलोकेन भोगेन सम्पन्नः सम्पत्तिः इष्टप्राप्तिः तया समृद्धः महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥

उक्तमेवार्थमाकाङ्क्षापूर्वकमुपपादयति –

कथमित्यादिना ॥१॥