छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥
अथ पुनः ये च अस्य विदुषः जन्तोर्जीवाः जीवन्तीह पुत्राः भ्रात्रादयो वा, ये च प्रेताः मृताः इष्टाः सम्बन्धिनः, यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नानि वा वस्त्विच्छन् न लभते, तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते । अत्र अस्मिन्हार्दाकाशे हि यस्मात् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनृतापिधानाः । कथमिव तदन्याय्यमिति, उच्यते — तत् तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिः निधीयत इति निधिः तं हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तम् अक्षेत्रज्ञाः निधिशास्त्रैर्निधिक्षेत्रमजानन्तः ते निधेः उपर्युपरि सञ्चरन्तोऽपि निधिं न विन्देयुः शक्यवेदनमपि, एवमेव इमाः अविद्यावत्यः सर्वा इमाः प्रजाः यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोकः ब्रह्मलोकः तम् अहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति न लभन्ते — एषोऽहं ब्रह्मलोकभावमापन्नोऽस्म्यद्येति । अनृतेन हि यथोक्तेन हि यस्मात् प्रत्यूढाः हृताः, स्वरूपादविद्यादिदोषैर्बहिरपकृष्टा इत्यर्थः । अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यते इत्यभिप्रायः ॥

इतश्च तेषामलाभे निमित्तमनृतापिधानमेवेत्याह –

अथ पुनरिति ।

यथोक्तेन विधिनेत्युपास्तिप्रकारोक्तिः ।

आत्मस्थानां कामानामनृतापिधानत्वमुक्तं निगमयति –

अत्रेति ।

यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतापिधानाः । सत्यामविद्यायामनुपलम्भाद्विद्यया तत्प्रशमने चोपलम्भादित्यर्थः ।

यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे –

कथमिवेत्यादिना ।

तत्र स्वायत्तस्याप्यप्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः ।

दार्ष्टान्तिकं व्याकरोति –

एवमेवेति ।

अलाभप्रकारमभिनयति –

एषोऽहमिति ।

तत्र हेतुमाह –

अनृतेनेति ।

यथोक्तेन मिथ्याज्ञानशब्दितानाद्यनिर्वाच्याज्ञानकृतेन तृष्णाप्रभेदेन तन्निमित्तेनेच्छाप्रचारेणेत्यर्थः । तस्मात्प्रजानां स्वात्मभूतब्रह्मलोकालाभ इति शेषः ।

स्वरूपादनृतेन हृतत्वमेव स्फोरयति –

अविद्यादीति ।

प्रकृतमाक्रोशमुपसंहरति –

अत इति ॥२॥