छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
य आत्मा सेतुत्वादिगुणैः स्तुतः, तत्प्राप्तये ज्ञानसहकारिसाधनान्तरं ब्रह्मचर्याख्यं विधातव्यमित्याह । यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम् —

अथ यथोक्तपरमात्मप्राप्तिसाधने ज्ञाने सहकारिब्रह्मचर्यं प्रागेवोक्तं तथाच कृतं ब्रह्मचर्यविषयेणोत्तरग्रन्थेनेत्याशङ्क्याऽऽह –

य आत्मेति ।

शमाद्यपेक्षयाऽन्तरशब्दः । उक्तमपि ब्रह्मचर्यं विधातुमनन्तरग्रन्थप्रवृत्तिरित्यर्थः ।

किमिति तर्हि तस्य स्तुतिरित्याशङ्क्य तस्या विधिशेषत्वं दर्शयति –

यज्ञादिभिश्चेति ।