छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ १ ॥
अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टाः, तद्ब्रह्मचर्यमेव । यज्ञस्यापि यत्फलं तत् ब्रह्मचर्यवाल्लम्भते ; अतः यज्ञोऽपि ब्रह्मचर्यमेवेति प्रतिपत्तव्यम् । कथं ब्रह्मचर्यं यज्ञ इति, आह — ब्रह्मचर्येणैव हि यस्मात् यो ज्ञाता स तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते, ततो यज्ञोऽपि ब्रह्मचर्यमेवेति । यो ज्ञाता — इत्यक्षरानुवृत्तेः यज्ञो ब्रह्मचर्यमेव । अथ यदिष्टमित्याचक्षते, ब्रह्मचर्यमेव तत् । कथम् ? ब्रह्मचर्येणैव साधनेन तम् ईश्वरम् इष्ट्वा पूजयित्वा अथवा एषणाम् आत्मविषयां कृत्वा तमात्मानमनुविन्दते । एषणादिष्टमपि ब्रह्मचर्यमेव ॥

श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति –

अथेत्यादिना ।

ब्रह्मचर्यस्योक्तरीत्या विधित्सितत्वे तदीयस्तुतिप्रारम्भार्थोऽथशब्दः ।

यज्ञस्य ब्रह्मचर्येऽन्तर्भावं साधयति –

यज्ञस्यापीति ।

उक्तमेवार्थमाकाङ्क्षाद्वारा समर्थयते –

कथमित्यादिना ।

पारम्पर्येण चित्तशुद्धिद्वारेणेत्यर्थः ।

न केवलं फलद्वारा यज्ञो ब्रह्मचर्येऽन्तर्भवति किन्तु यकारज्ञकारसम्स्पर्शादपीत्याह –

यो ज्ञातेति ।

इष्टस्य ब्रह्मचर्यान्तर्भावमाकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

पूजयित्वा तमात्मानमनुनिन्दत इति सम्बन्धः ।

ब्रह्मचर्येणाऽत्मविषयैषणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मादेषणादुभयसादृश्यादिष्टमपि यज्ञवद्ब्रह्मचर्यमेवेत्याह –

एषणादिति ॥१॥