छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥
नन्वत्र ‘त्वमिन्द्रस्त्वं यमस्त्वं वरुणः’ इत्यादिभिर्यथा कश्चित्स्तूयते महार्हः, एवमिष्टादिभिः शब्दैः न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हम् ; किं तर्हि, ज्ञानस्य मोक्षसाधनत्वात् तदेवेष्टादिभिः स्तूयत इति केचित । न, स्त्र्यादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः, ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्’ (का. २ । १ । १) इत्यादिश्रुतिस्मृतिशतेभ्यः । ज्ञानसहकारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः । ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते । सत्यं गम्यते, न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्यं स्तूयते ; किं तर्हि, तेषां प्रसिद्धं पुरुषार्थसाधनत्वमपेक्ष्य । यथेन्द्रादिभिः राजा, न तु यत्रेन्द्रादीनां व्यापारः तत्रैव राज्ञ इति — तद्वत् ॥

ब्रह्मचर्यस्यात्यल्पसाधनत्वान्महती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति –

नन्वत्रेति ।

तस्य क्षुद्रसाधनत्वमसिद्धं दुरनुष्टेयत्वात्तद्व्यतिरेकेण ज्ञानासम्भवाच्चेत्युत्तरमाह –

नेत्यादिना ।

विषयापहृतचित्तानां नराणां विवेकासम्भवे प्रमाणमाह –

पराञ्चीति ।

ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता ।

ब्रह्मचर्यस्योत्तमसाधनत्वे सिद्धे फलितमाह –

ज्ञानेति ।

ब्रह्मलोकप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुतत्वात्तेषामपि तत्प्राप्तिसाधनत्वं श्रुत्याऽभिप्रेतमिति शङ्कते –

नन्विति ।

किं तेषां पुरुषार्थसाधनत्वं प्रस्तुतश्रुत्या प्रतीतं किं वा ब्रह्मलोकसाधनत्वमिति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

न द्वितीयो वाक्यभेदप्रसङ्गादित्याह –

न त्विति ।

कथं तर्हि यज्ञादिभिर्ब्रह्मचर्यस्तुतिस्तत्राऽऽह –

किं तर्हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेति ।

त्वमिन्द्रस्त्वं विष्णुरित्यादिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्येन्द्रादिव्यापारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञादिभिर्ब्रह्मचर्यस्य स्तुतस्यापि नास्ति तुल्यफलत्वमित्यर्थः ।