छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
तस्याध्यात्मं नाडीभिः कथं सम्बन्ध इति, अत्र दृष्टान्तमाह — तत् तत्र यथा लोके महान् विस्तीर्णः पन्था महापथः आततः व्याप्तः उभौ ग्रामौ गच्छति इमं च संनिहितम् अमुं च विप्रकृष्टं दूरस्थम् , एवं यथा दृष्टान्तः महापथः उभौ ग्रामौ प्रविष्टः, एवमेवैताः आदित्यस्य रश्मयः उभौ लोकौ अमुं च आदित्यमण्डलम् इमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टाः । यथा महापथः । कथम् ? अमुष्मादादित्यमण्डलात् प्रतायन्ते सन्तता भवन्ति । ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ताः गताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यः ते अमुष्मिन् । रश्मीनामुभयलिङ्गत्वात् ते इत्युच्यन्ते ॥

आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पष्टयति –

तस्येत्यादिना ।

उभयत्राऽऽदित्यमण्डले पुरुषे चेत्यर्थः ।

तत्र पूर्वोक्तमेव दृष्टान्तमनुवदति –

यथेति ।

उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टाः इत्यर्थः ।

तमेव प्रवेशं प्रश्नद्वारा प्रकटयति –

कथमित्यादिना ।

कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्क्य सौरेण तेजसेत्यादिनोक्तं स्मारयति –

यथोक्तास्त्विति ।

अमुष्मिन्नादित्ये सृप्ता इति सम्बन्धः ।

कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह –

रश्मीनामिति ॥२॥