छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतभयमेतद्ब्रह्म’ (छा. उ. ८ । ३ । ४) इत्युक्तम् । तत्र कोऽसौ सम्प्रसादः ? कथं वा तस्याधिगमः, यथा सोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ? येन स्वरूपेणाभिनिष्पद्यते सं किंलक्षण आत्मा ? सम्प्रसादस्य च देहसम्बन्धीनि पररूपाणि, ततो यदन्यत्कथं स्वरूपम् ? इति एतेऽर्था वक्तव्या इत्युत्तरो ग्रन्थ आरभ्यते । आख्यायिका तु विद्याग्रहणसम्प्रदानविधिप्रदर्शनार्था विद्यास्तुत्यर्था च — राजसेवितं पानीयमितिवत् ।

दहरविद्यायामुपास्य स्तुत्यर्थमुक्तमनुवदति –

अथेति ।

विवेकानन्तर्यमथशब्दार्थो व्याख्यातः । शरीरात्समुत्थानं तस्मिन्नहंममाभिमानत्यागः ।

स्वरूपं विशिनष्टि –

एष इति ।

उक्तिकर्तृत्वमाचार्यस्य दर्शितमेव ।

प्राणो वा संप्रसादो विज्ञानात्मा वेति संशयात्पृच्छति –

तत्रेति ।

प्रकृतं वाक्यं सप्तम्यर्थः ।

तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह –

कथं वेति ।

किं तस्य परमात्माधिगमेनेत्याशङ्क्याऽऽह –

यथेति ।

तथा तस्याधिगमः कथमिति सम्बन्धः ।

अभिनिष्पद्यमानरूपश्चाऽऽत्मा सविशेषो निर्विशेषो वेतिप्रश्नान्तरं करोति –

येनेति ।

आत्मनो हि सच्चिदानन्दैकतानादर्थान्तराणि रूपाणि दृश्यमानानि शरीरसम्बन्धप्रयुक्तानि । तथा च ततः शरीरादुपाधेर्यदन्यत्तस्य स्वरूपं तत्कथं सर्वप्रमाणाप्रतिपन्नमस्तीति प्रश्नान्तरमाह –

सम्प्रसादस्य चेति ।

एतेषां प्रश्नानामुत्तरत्वेनोत्तरग्रन्थमवतारयति –

इत्येत इति ।

प्रजापतेरिन्द्रविरोचनयोश्च संवादरूपा याऽत्राऽख्यायिका दृश्यते सा किमर्थेत्याशङ्क्याऽह –

आख्यायिका त्विति ।

शिष्यस्य विद्याया ग्रहणे गुरोस्तस्याःसम्यक्प्रदाने च यो विधिः श्रद्धालुत्वादिप्रकारस्तत्प्रदर्शनार्थेति यावत् । यद्वा विद्याया ग्रहणं स्वीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधिर्ब्रह्मचर्यादिस्तत्प्रदर्शनार्थेत्यर्थः ।

आख्यायिकायास्तात्पर्यान्तरमाह –

विद्येति ।

प्रजापतिना प्रोक्ता देवैरसुरैश्च प्रार्थितेन्द्रविरोचनाभ्यां देवासुराधिपतिभ्यामायासेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मान्महार्हेयं विद्येति तस्याः स्तुत्यर्थाऽऽख्यायिकेत्यर्थः ।

महद्भिरुपासितस्य महार्हत्वे दृष्टान्तमाह –

राजसेवितमिति ।