छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
एवं दोषं देहच्छायात्मदर्शने अध्यवस्य स समित्पाणिः ब्रह्मचर्यं वस्तुं पुनरेयाय । तं ह प्रजापतिरुवाच — मघवन् यत् शान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति । विजानन्नपि पुनः पप्रच्छ इन्द्राभिप्रायाभिव्यक्तये — ‘यद्वेत्थ तेन मोपसीद’ (छा. उ. ७ । १ । १) इति यद्वत् । तथा च स्वाभिप्रायं प्रकटमकरोत् — यथैव खल्वयमित्यादि ; एवमेवेति च अन्वमोदत प्रजापतिः ॥

विनाशित्वादियुक्तिदर्शनफलमुपसम्हरति –

अत इति ।

दोषं दृष्ट्वा यथोक्तरीत्या किं कृतवानित्यपेक्षायामाह –

इत्येवमिति ।

सर्वज्ञो हि प्रजापतिरिन्द्राभिप्रायं जानन्नेव किमर्थं प्राकृतवत्पृच्छतीत्याशङ्क्याऽऽह –

विजानन्नपीति ।

आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्यभिप्रायविशेषेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह –

यद्वेथेति ।

तथा च प्रजापतिप्रश्नानुरोधेनेति यावत् । इन्द्रविषयः स्वशब्दः।