शिष्ययोः श्रवणसाम्येऽपि प्रतिपत्तिवैषम्ये निमित्तं पृच्छति –
नन्विति ।
आचार्यमतोपन्यासद्वारा परिहरति –
तत्रेति ।
तत्र प्रतिपत्तिविशेषे दृष्टान्तेन निमित्तविशेषं दर्शयति –
यथेति ।
आचार्योक्तबुद्ध्या तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्येत्यर्थः ।
विरोचनस्येन्द्रवच्छायात्मग्रहणमाचार्योक्तबुद्ध्या नाभूदित्याह –
न तथेति ।
कथं तर्हि तस्याऽऽत्मदर्शनमित्याशङ्क्याऽऽह –
देह एवेति ।
आचार्येणाऽत्मा देह एवोक्त इति बुद्ध्या तत्रैव विरोचनस्याऽऽत्मज्ञानमासीदित्यर्थः ।
इन्द्रस्य छायात्मग्रहणे देवानप्राप्तस्यैवमार्गमध्ये दोषदर्शनवद्विरोचनस्यासुरानप्राप्तस्याध्वनि देहात्मदर्शने दोषदर्शनं च न प्रवृत्तमित्याह –
नापीति ।
दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह –
तद्वदेवेति ।
विद्याग्रहणौपयिकस्य सामर्थ्यस्य प्रतिबन्धभूतो यो रागादिदोषस्तदल्पत्वापेक्षमिन्द्रस्य च्छायायामात्मग्रहणमित्युक्तं व्यक्तीकरोति –
इन्द्र इति ।
यथोक्तदोषभूयत्वापेक्षं गृह्णतो विरोचनस्याभिप्रायं दृष्टान्तेन दर्शयति –
यथेत्यादिना ।
उक्तमर्थं बृहदारण्यकश्रुत्यवष्टम्भेन स्पष्टयति –
स्वचित्तेति ।
देवान्मनुष्यानसुरांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्येऽपि तदर्थविशेषावधारणं स्वचित्तगुणदोषवशादेव बृहदारण्यके ख्यापितं तथेहापीत्यर्थः ।
तत्र वा कथं तुल्येऽपि श्रवणेऽर्थविशेषबुद्धिस्तत्राऽऽह –
दाम्यतेति ।
अदान्ता हि वयं स्वभावस्तेन दाम्यतेत्यस्मान्प्रति पितोक्तवानिति देवानां मतिराविरासीत् । स्वभावतो लुब्धा वयं तेन दत्तेत्यस्मान्प्रत्युक्तवान्पितेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावस्तेन दयध्वमित्यस्मान्प्रति प्रजापतिरूचिवानित्यसुराणां प्रतिपत्तिर्बभूव । तदेवं दकारमात्रश्रवणादात्मचित्तानुरोधेन विचित्रा तेषां मनीषा प्रवृत्ता तथेन्द्रविरोचनयोरपि भविष्यतीत्यर्थः ।
अथेन्द्रविरोचनयोर्युक्तिदर्शनाविशेषादर्थप्रतिपत्तेरप्यविशेषः स्यादिति चेन्नेत्याह –
निमित्तान्यपीति ।
युक्तिदर्शनान्यपि स्वचित्तगुणदोषाल्पत्वबहुत्वापेक्षाण्यतस्तयोस्तदपेक्षं प्रतिपत्तिवैषम्यमविरुद्धमित्यर्थः ॥२॥