छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥
पूर्ववदेवमेवेत्युक्त्वा आह — यो मया उक्तः त्रिभिः पर्यायैः तमेवैतं नो एवान्यत्रैतस्मादात्मनः अन्यं कञ्चन, किं तर्हि, एतमेव व्याख्यास्यामि । स्वल्पस्तु दोषस्तवावशिष्टः, तत्क्षपणाय वस अपराणि अन्यानि पञ्च वर्षाणि — इत्युक्तः सः तथा चकार । तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसम्बन्धरहितमात्मनः स्वरूपम् अपहतपाप्मत्वादिलक्षणं मघवते तस्मै ह उवाच । तान्येकशतं वर्षाणि सम्पेदुः सम्पन्नानि बभूवुः । यदाहुर्लोके शिष्टाः — एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास इति । तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातः अपसृत्य श्रुत्या उच्यते । एवं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि महता यत्नेन एकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानम् । अतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥

पूर्ववद्ब्रह्मचर्यादेशाभावे हेतुमाह –

स्वल्पस्त्विति ।

आख्यायिकातोऽपसृत्य श्रुतिरस्मभ्यं किमर्थमित्यमुपदिशतीत्याशङ्क्याऽऽह –

एवमिति ॥३॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्यैकादशः खण्डः ॥