छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति च्छायापुरुष एव प्रजापतिना उक्तः, स्वप्नसुषुप्तयोश्च अन्य एव, न परोऽपहतपाप्मत्वादिलक्षणः, विरोधात् इति केचिन्मन्यन्ते । छायाद्यात्मनां च उपदेशे प्रयोजनमाचक्षते । आदावेव उच्यमाने किल दुर्विज्ञेयत्वात्परस्य आत्मनः अत्यन्तबाह्यविषयासक्तचेतसः अत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति । यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुः वृक्षं कञ्चित्प्रत्यक्षमादौ दर्शयति — पश्य अमुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थम् — एष चन्द्र इति, ततोऽसौ चन्द्रं पश्यति, एवमेतत् ‘य एषोऽक्षिणि’ इत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैः, न पर इति । चतुर्थे तु पर्याये देहान्मर्त्यात्समुत्थाय अशरीरतामापन्नो ज्योतिःस्वरूपम् । यस्मिन्नुत्तमपुरुषे स्त्रयादिभिर्जक्षत्क्रीडन् रममाणो भवति, स उत्तमः पुरुषः पर उक्त इति च आहुः । सत्यम् , रमणीया तावदियं व्याख्या श्रोतुम् । न तु अर्थोऽस्य ग्रन्थस्य एवं सम्भवति । कथम् ? ‘अक्षिणि पुरुषो दृश्यते’ इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयाय उदशरावोपन्यासः ‘किं पश्यथः’ (छा. उ. ८ । ८ । १) इति च प्रश्नः साध्वलङ्कारोपदेशश्च अनर्थकः स्यात् , यदि छायात्मैव प्रजापतिना ‘अक्षिणि दृश्यते’ इत्युपदिष्टः । किञ्च यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयनकारणं वक्तव्यं स्यात् । स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात् । न च उक्तम् । तेन मन्यामहे न अक्षिणि च्छायात्मा प्रजापतिना उपदिष्टः । किं चान्यत् , अक्षिणि द्रष्टा चेत् ‘दृश्यते’ इत्युपदिष्टः स्यात् , तत इदं युक्तम् । ‘एतं त्वेव ते’ इत्युक्त्वा स्वप्नेऽपि द्रष्टुरेवोपदेशः । स्वप्ने न द्रष्टोपदिष्ट इति चेत् , न, ‘अपि रोदितीव’ ‘अप्रियवेत्तेव’ इत्युपदेशात् । न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति न्यायतः श्रुत्यन्तरे सिद्धत्वात् । यद्यपि स्वप्ने सधीर्भवति, तथापि न धीः स्वप्नभोगोपलब्धिं प्रति करणत्वं भजते । किं तर्हि, पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् । किञ्चान्यत् , जाग्रत्स्वप्नयोर्भूतानि च आत्मानं च जानाति — इमानि भूतान्ययमहमस्मीति । प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यात् — नाह खल्वयमित्यादि । तथा चेतनस्यैव अविद्यानिमित्तयोः सशरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तः ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति । एकश्चात्मा स्वप्नबुद्वान्तयोर्महामत्स्यवदसङ्गः सञ्चरतीति श्रुत्यन्तरे सिद्धम् । यच्चोक्तं सम्प्रसादः शरीरात्समुत्थाय यस्मिन्‌स्त्र्यादिभिः रममाणो भवति सोऽन्यः सम्प्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति, तदप्यसत् । चतुर्थेऽपि पर्याये ‘एतं त्वेव ते’ इति वचनात् । यदि ततोऽन्योऽभिप्रेतः स्यात् , पूर्ववत् ‘एतं त्वेव ते’ इति न ब्रूयान्मृषा प्रजापतिः । किञ्चान्यत् , तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुनः तत्त्वमसीत्युपदेशः मृषा प्रसज्येत । तस्मिंस्त्वं स्त्र्यादिभिः रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यत् यदि सम्प्रसादादन्य उत्तमः पुरुषो भवेत् । तथा भूम्नि ‘अहमेव’ (छा. उ. ७ । २५ । २) इत्यादिश्य ‘आत्मैवेदं सर्वम्’ इति नोपसमहरिष्यत् , यदि भूमा जीवादन्योऽभविष्यत् , ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुत्यन्तराच्च । सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत् प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत् । तस्मादेक एव आत्मा प्रकरणी सिद्धः ॥

चतुर्ष्वपि पर्यायेषु त्वमर्थानुवादेन तस्य तदर्थत्वं विधेयमिति स्वाभिप्रायेण प्रजापतिवाक्यं व्याख्यातं सम्प्रति स्वयूथ्यमतमुत्थापयति –

य एष इति ।

प्रथमपर्यायस्य च्छायात्माविषयत्ववद्द्वितीयतृतीयपर्याययोरपि विज्ञानात्मविषयत्वमित्याह –

स्वप्नेति ।

अन्य एव परस्मादुक्त इति सम्बन्धः ।

चतुर्थपर्यायवत्पर्यायत्रयेऽपिपरमात्मैव कस्मान्नोच्यते तत्राऽऽह –

न पर इति ।

अपहतपाप्मत्त्वादेरवस्थावत्त्वस्य च मिथो विरोधो हेत्वर्थः ।

नन्वन्तिमे पर्याये परस्योपदेशो युज्यते तज्ज्ञानस्य मुत्तिफलत्वात्किमिति पूर्वेषु पर्यायेषु च्छायादयो निर्दिश्यन्ते तत्फलाभावादत आह –

छायाद्यात्मनां चेति ।

तत्र प्रथमं छायात्मोपदेशस्य प्रयोजनमाह –

आदावेवेति ।

परस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वात्तस्मिन्नेवाऽऽदावुच्यमाने सति तस्यापि सूक्ष्मस्य श्रवणेऽपि श्रोतुरनात्मनिष्ठस्य किल व्यामोहः स्यात्स मा भूदिति पृथक्छायात्मोपदेशः कृत इति सम्बन्धः ।

स्वप्नसुषुप्तयोर्विज्ञानात्मोपदेशस्य प्रयोजनं दर्शयन्नुक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

इतिशब्दस्तिङा सम्बध्यते ।

पर्यायान्तरस्य तात्पर्यमाह –

चतुर्थे त्विति ।

मरणधर्मकाद्देहात्पृथग्भूत्वा ज्योतिःस्वरूपमशरीरत्वंप्राप्तो यद्यपि चतुर्थे पर्याये कथ्यते तथाऽपि कथमसौ परमात्मा स्यादित्याशङ्क्याऽऽह –

यस्मिन्निति ।

स सम्प्रसादो यो विद्वान्कर्तृत्वेन विवक्षितः ।

किमिदं व्याख्यानं शब्दानुसारि किं वाऽर्थानुसारीति विकल्प्याऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

नत्विति ।

असम्भवमेवाऽऽकाङ्क्षाद्वारा स्फुटयति –

कथमित्यादिना ।

यद्याद्ये पर्याये छायात्मोपदिश्येत तर्हीन्द्रविरोचनयोः सम्यग्दर्शित्वाद्विपरीतग्रहापोहार्थं प्रजापतेरायासो वृथा स्यात् । तेन नेदं याख्यानमर्थानुसारीत्यर्थः ।

इतश्च नाऽऽद्ये पर्यायेछायात्मोपदेशोऽस्तीत्याह –

किंचेति ।

प्रजापतिनोपदिष्टस्यापि च्छायात्मनो ग्रहणं न मृष्यतीत्याशङ्क्य हेत्वन्तरं स्पष्टयति –

यदीति ।

तेन च्छायात्मग्रहणापनयकारणावचनेनेति यावत् । तेन प्रजापतिनेत्येकस्तच्छब्दो योज्यः ।

इतश्च प्रथमे पर्याये द्रष्टुरेवोपदेशोनच्छायापुरुषस्येत्याह –

किंचान्यदिति ।

एतच्छब्देन सन्निहितावलम्बिना छायात्मानमनुकृष्य स्वप्ने द्रष्टुरुपदेशे प्रजापतेर्मृषावादित्वं प्रसज्येत तथा च प्रथमेऽपि पर्याये द्रष्टैवोपदिष्ट इत्यर्थः ।

स्वप्नावस्थाविशिष्टस्य स्थानान्तरेबाध्यत्वान्न तत्र द्रष्टुरुपदेशोऽस्तीति शङ्कते –

स्वप्न इति ।

अनुभवानुसारेणोत्तरमाह –

नेत्यादिना ।

किंच प्रकाशकारणानामुपरमे यः प्रकाशः स नैसर्गिक इति न्यायेन प्रतीचः स्वयंज्योतिष्ट्वं बृहदारण्यके स्वाप्नावस्थामाश्रित्योक्तं ततश्च तत्र द्रष्टुरुपदेशः सिद्ध्यतीत्याह –

न चेति ।

सूर्यादीनामुपरमे यः प्रकाशो दृश्यमानः स नैसर्गिक इत्ययुक्तं स्वप्नेऽप्यन्तःकरणस्य सत्त्वादित्याशङ्क्यऽऽह –

यद्यपीति ।

करणत्वाभावे हेतुं पृच्छति –

किं तर्हीति ।

नीलपीतादिजाग्रद्वासनाभिर्विवर्तमाना साक्षिणो वेद्यतामापद्यते । तथा च पटचित्रवद्विचित्रवासनामयचेतसः साक्षिगम्यत्वान्न स्वनोपलब्धौ करणं भवतीति तद्द्रष्टुः स्वयंज्योतिष्ट्वं न्यायसिद्धमित्याह –

पटेति ।

प्रासङ्गिकं हित्वा द्रष्टैवोपदिष्टः स्वप्नावस्थायामित्यत्र हेत्वन्तरमाह –

किञ्चेति ।

तथा च जाग्रदवस्थायामिव स्वप्नेऽपि द्रष्टैवोपदिष्ट इति शेषः ।

इतश्च द्रष्टुरेवोपदेशः स्वप्नदशायामित्याह –

प्राप्ताविति ।

न केवलमुक्तसौषुप्तो निषेधो निषेध्यप्राप्तिसापेक्षत्वादवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षति किं तु तुरीयगतो निषेधोऽपि निषेध्यमाकाङ्क्षन्नवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षतीत्याह –

तथेति ।

निषेधस्य प्राप्तिसापेक्षत्वात्प्रकृतस्यैव द्रष्टुरविद्यानिदाने सशरीरत्वे तन्निमित्तयोः स्थानद्वयगतयोर्न प्रियाप्रिययोरपहतिरस्तीति न ह वै सशरीरस्येत्यादिनोक्तं सशरीरत्वे प्राप्तयोः प्रियाप्रिययोस्तस्यैवावस्थात्रयातीतस्य सत्यां विद्यायामशरीरमित्यादिना प्रतिषेधो युक्त इति योजना ।

स्वप्ने द्रष्टुरुपदेशे हेत्वन्तरमाह –

एकश्चेति ।

चतुर्थपर्यायस्यसौषुप्तादर्थान्तरविषयत्वमुक्तमनुभाष्य दूषयति –

यच्चोक्तमित्यादिना ।

तदेव व्यतिरेकद्वारा स्फोरयति –

यदीति ।

अधिकरणाधेयभावेन भेदः सत्यो नास्तीत्यत्र हेत्वन्तरमाह –

किंचान्यदिति ।

जीवपरयोर्भेदस्य षष्ठप्रपाठकविरोधवत्सप्तमप्रपाठकविरोधोऽपि स्यादित्याह –

तथेति ।

बृहदारण्यकश्रुत्यालोचनायामपि जीवेश्वरभेदो न सम्भवतीत्याह –

नान्य इति ।

इतश्च जीवपरयोरभेदो नास्तीत्याह –

सर्वश्रुतिष्विति ।

श्रौतमर्थमुपसम्हरति –

तस्मादिति ।