छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
न च आत्मनः संसारित्वम् , अविद्याध्यस्तत्वादात्मनि संसारस्य । न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति । एतेन सशरीरस्य प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् । यच्च स्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् । एवं च सति सर्वपर्यायेषु ‘एतदमृतमभयमेतद्ब्रह्म’ इति प्रजापतेर्वचनम् , यदि वा प्रजापतिच्छद्मरूपायाः श्रुतेर्वचनम् , सत्यमेव भवेत् । न च तत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम् , ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः । ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेत् , न, जरादिरहितो जीर्णोऽहं जातोऽहमायुष्मान्गौरः कृष्णो मृतः — इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः । सर्वमप्येतत्सत्यमिति चेत् , अस्त्येवैतदेवं दुरवगमम् , येन देवराजोऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र ‘विनाशमेवापीतो भवति’ इति । तथा विरोचनो महाप्राज्ञः प्राजापत्योऽपि देहमात्रात्मदर्शनो बभूव । तथा इन्द्रस्य आत्मविनाशभयसागरे एव वैनाशिका न्यमज्जन् । तथा साङ्ख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वात् मृत्युविषये एव अन्यत्वदर्शने तस्थुः । तथा अन्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्त्रं नवभिरात्मगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः । तथा अन्ये कर्मिणो बाह्यविषयापहृतचेतसः वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं सविनाशमिव इन्द्रवन्मन्यमाना घटीयन्‍त्रवत् आरोहावरोहप्रकारैरनिशं बम्भ्रमन्ति ; किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिर्विषयापहृतचेतसः । तस्मादिदं त्यक्तसर्वबाह्यैषणैः अनन्यशरणैः परमहंसपरिव्राजकैः अत्याश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं च इमं सम्प्रदायमनुसरद्भिः उपनिबद्धं प्रकरणचतुष्टयेन । तथा अनुशासति अद्यापि ‘त एव नान्ये’ इति ॥

आत्मैक्ये परस्यैव संसारित्वं सर्वदेहेषु स्यादिति चेन्नेत्याह –

न चेति ।

आरोपितसंसारित्वं वस्तुतो नाऽऽत्मन्यस्तीत्येतद्दृष्टान्तेन स्पष्टयति –

न हीति ।

मिथ्या च तदज्ञानं चेति मिथ्याज्ञानं तेनाध्यस्तान्यविद्यमानान्येव विद्यमानवत्प्रतीतिमापादितानीति यावत् ।

न ह वै सशरीरस्येत्यादि वदता वास्तवत्वं शरीरसम्बन्धस्य विवक्षितमिति शङ्कामुक्तन्यायातिदेशेन निरस्यति –

एतेनेति ।

आत्मनि संसारस्य प्रसक्तिर्नेति यावत् । यावदध्यासभावित्वं प्रियाप्रिययोरपहत्यभावो न वास्तवत्वं शरीरसम्बन्धस्यैव प्रियाप्रियमूलस्य दुर्निरूपत्वादित्यर्थः । स्वप्नद्रष्टा खल्वप्रियवेत्तेव भवति नत्वप्रियवेत्तैवेति यत्पूर्वत्र स्थितं तत्सिद्धम् ।

लाभान्तरमाह –

एवं चेति ।

प्रजापतेर्वचनं सत्यं भवेदिति सम्बन्धः ।

अपौरुषेय्यां श्रुतौ कुतः प्रजापतेर्वचनं सावकाशमित्याशङ्क्याऽऽह –

यदिवेति ।

सुखादयः साश्रया गुणत्वाद्रूपादिवदित्यनुमानात्तदाश्रयः परिशेषादात्मा भविष्यतीति वैशेषिकादितर्कविरोधादसत्यं श्रुतेर्वचनमित्याशङ्क्याऽऽह –

न चेति ।

सुखादीनामुपाधिधर्मत्वेन सिद्धसाध्यत्वान्नास्ति श्रौतवचसो बाधकमित्यर्थः ।

प्रत्यक्षमिति शङ्कते –

नन्विति ।

तस्याऽऽभासत्वान्न बाधकत्वमिति परिहरति –

नेत्यादिना ।

दृष्टान्तोऽपि सम्प्रतिपन्नो न भवतीति शङ्कते –

सर्वमिति ।

जरादेः सत्यवचनं त्वदीयमेवमस्त्येवेत्यङ्गीकरोति –

अस्त्येवेति ।

अङ्गीकारे हेतुमाह –

दुरवगममिति ।

अधिकारिणः प्रमितिजनको वेद इति न्यायात्तादृशानामनधिकारिणां दुर्ज्ञानमात्मतत्त्वम्  । अतोऽस्त्येव जरादिसत्यत्ववचनं न तावता वस्तुक्षतिरित्यर्थः ।

दुरवगमत्वे लिङ्गमाह –

येनेति ।

अत्रेत्यात्मतत्वोक्तिः ।

तस्य दुर्ज्ञानत्वे लिङ्गान्तरमाह –

तथेति ।

वैनाशिकभ्रान्तिरप्यात्मनो दुर्ज्ञानत्वं गमयतीत्याह –

तथेन्द्रस्येति ।

साङ्ख्यभ्रान्तिरपि दुर्ज्ञानत्वमात्मनो ज्ञापयतीत्याह –

तथा साङ्ख्या इति ।

तार्किकभ्रान्तिरपि तस्य दुर्ग्रहत्वे गमिकेत्याह –

तथाऽन्य इति ।

बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना न वाऽऽत्मगुणाः ।

मीमांसकभ्रान्तिस्तस्य दुर्ग्रहत्वे गमिकेत्याह –

तथाऽन्य इति ।

यदा परीक्षकाणामपीदृशी भ्रान्तिरात्मनो दुरवगमत्वं गमयति तदा विचारविधुराणां लौकिकानां भ्रान्तिस्तत्रप्रमाणयितव्येत्याह –

किमन्य इति ।

अन्ये बम्भ्रमतीति किं वक्तव्यमिति सम्बन्धः ।

यदि लौकिकानां परीक्षकाणां चेदमात्मतत्त्वं दुर्ज्ञानं प्रतिज्ञायते केषां तर्हीदं सुज्ञानमित्याशङ्क्याऽऽह –

तस्मादिति ।

एषणास्विवाऽऽत्मतत्त्वेऽपि तेषामौदासीन्यं वारयति –

अनन्यशरणैरिति ।

तेषां कुटीचकादिभावं व्यासेधति –

परमहंसेति ।

कर्मनिष्ठानामाश्रमानतीत्य नैष्कर्म्यप्राधान्येन वर्तमानत्वं दर्शयति –

अत्याश्रमिभिरिति ।

अनन्यशरणैरित्युक्तं व्यनक्ति –

वेदान्तेति ।

पूज्यतमैरिति नित्यानुवादः ।

तेषामात्मवेदनोपायं प्राक्तनमुपदिशति –

प्राजापत्यं चेति ।

स्थानत्रयं तुरीयं चेत्येतद्विषयं प्रकरणचतुष्टयम् ।

यथोक्ताधिकारिणामेवाऽऽत्मवेदनमित्य त्रलिङ्गान्तरमाह –

तथेति ।

अशरीरमित्यादिवाक्यव्याख्यानोपसंहारार्थमितिपदम् ॥१॥