सशरीरस्य बन्धो मुक्तिरशरीरस्येति स्थिते किमर्थमशरीरो वायुरित्यादिवाक्यमित्याशङ्क्याऽऽह –
तत्रेत्यादिना ।
कथं वायोरशरीरत्वं तदाह –
अविद्यमानमिति ।
एवं सति वाय्वादीनामशरीरत्वे सतीतियावत् ।
आकाशस्य सर्वत्रैकरूपत्वादमुष्मादिति कुतो व्यपदेशसिद्धिरित्याशङ्क्याऽऽह –
अमुष्मादितीति ।
यथोक्तान्यशरीराणि वाय्वादीनि तेषामाकाशत्वापत्तौ दृष्टान्तमाह –
यथेति ।
तथा वाय्वादीनि स्वेनरूपेणागृह्यमाणत्वदशायामाकाशाख्यतां गतानीति सम्बन्धः । तानि च वाय्वादीनि तथाभूतान्याकाशात्मत्वं प्राप्तानीत्येतत् ।
वर्षादिफलनिष्पत्त्यर्थं वाय्वादीनामाकाशदेशात्समुत्थानमुक्तमाकाङ्क्षाद्वारेण स्फुटयति –
कथमित्यादिना ।
स्वेन स्वेन रूपेणाभिनिष्पद्यन्त इति सम्बन्धः ।
तत्रवायोरभ्रस्य विद्युतः स्तनयित्नोश्च स्वेन रूपेणाभिनिष्पत्तिप्रकारं विवृणोति –
पुरोवातादीति ।
स्तिमितभावं हित्वा वायुरितिशेषः ॥२॥